________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २३ । २४१ तत्र शब्दशक्तिमूलमाह
नानार्थस्य मुख्यस्य शब्दस्य संसर्गादिभिरमुख्यस्य च मुख्यार्थबाधादिभिर्नियमिते व्यापारे वस्त्वलङ्कारयोर्वस्तुनश्च व्यञ्जकत्वे शब्दशक्तिमूलः पदवाक्ययोः॥ २३ ॥
श्यामा च षोडशवार्षिकी स्त्रीपरिभाषिता, सापि-अतन्द्रा-सुरतादावालास्यरहिता, .न्द्रः-कर्पूरमाभरणं यस्याः, चन्द्रः शिरोभूषणविशेष इति केचित् , समुद्दीपितमन्मथत्वं तु-तस्या थपि, तारका-अक्षिकनीनिका, तरला-चञ्चला यस्याः तारकावद् दीप्रः, तरलः-हारमध्यमणिर्यस्या इति वा । अत्र च स्त्रीविशेष इव रात्रिरित्युपमा, ज्योत्स्नी रात्रिरिव नायिकेति वा ध्वन्यते ।
शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति ध्वनेद्वैविध्य प्रदय तन्त्र प्रथम लक्षयितुं प्रवृत्तस्य सूत्रस्य भूमिकामाह-तत्र शब्दशक्तिमूलमाहेति-तत्र तयोर्ध्वन्योः शब्दशक्तिमूलमनेन सूत्रेण कथयतीत्यर्थः । नानार्थेत्यादिसूत्रार्थ व्याख्यातिअनेकार्थस्येति-पदान्तरसमभिव्याहारं विनापि विभिन्नानेकार्थ-बोधकत्वं नानार्थत्वम् । मुख्यस्य अभिधावृत्त्यार्थोपस्थापकस्य, शब्दस्य अभिधालक्षणे शक्तिरूपे व्यापारे, संसर्गादिभिः वक्ष्यमाणैरनेकार्थशब्दस्यार्थनिर्णायकहेतुभिः, नियमिते इत्यस्यार्थमाह-नियन्त्रिते इति एकत्र निर्णीते, अमुख्यस्य गौणी लक्षणां वा वृत्तिमाश्रित्यार्थबोधकस्य, तदाह-गौणलाक्षणिकरूपस्य शब्दस्येति गौण्या [ अप्रसिद्धया] वृत्त्याऽर्थबोधको गौणः, लक्षणयाऽर्थबोधको लाक्षणिकः, तस्य शब्दस्य, मुख्यार्थबाधनिमित्तप्रयोजनैरिति-मुख्यार्थस्य बाधेन, निमित्तेन-प्रयोजनेन चार्थोपस्थापनसामर्थ्यरूपे व्यापारे नियन्त्रिते रुद्धे सति, मुख्यस्य वाचकस्य, शब्दस्य, वस्त्वलङ्कारोभयव्यञ्जकत्वे, अमुख्यस्य गौणलाक्षणिकस्य च, वस्तुमात्रव्यञ्जकत्वे सति शब्दशक्तिमूल: शब्दशक्तिनिमित्तकस्तत्पदव्यपदेश्यो व्यङ्ग्यः ध्वनिरिति । अयमर्थः-वाचकशब्दस्यार्थाभिधानसामर्थ्यरूपे व्यापारे संसर्गादिभिर्नियत्रिते गौणलक्षकशब्दयोश्च तथाभूते मुख्यार्थबाधादिभिर्नियनिते यद् वस्त्वलकारयोः, पूर्वत्र परत्र च वस्तुमात्रस्य व्यञ्जनं भवति स शब्दशक्तिमूलो व्यङ्गय इति । तदुक्तं
का. १६
For Private And Personal Use Only