________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
सालङ्कारचूडामणौ काव्यानुशासने अनेकार्थस्य मुख्यस्य शब्दस्याभिधालक्षणे व्यापारे संसर्गादिभिर्नियन्त्रितेऽमुख्यस्य च गौणलाक्षणिकरूपस्य शब्दस्य मुख्यार्थबाधनिमित्तप्रयोजनौणीलक्षणारूपे व्यापारे नियन्त्रिते मुख्यस्य शब्दस्य वस्त्वलकारख्यञ्जकत्वेऽमुख्यस्य च वस्तुव्यञ्जकत्वे सति शब्दशक्तिमूलो व्यङ्ग्यः, स च प्रत्येकं द्विधा-पदे वाक्ये च । संसर्गादयश्चेमे भर्तृहरिणा प्रोक्ताः"संसर्गो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः॥ सामर्थ्य मौचिती देशः कालो व्यक्तिः स्वरादयः। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥"
[वा० प० का० श्लो० ३१७-१८] काव्यप्रकाशेऽपि-"अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृत् व्यापृतिरञ्जनम् ॥" [द्वि० उ० का० २९] अस्यार्थः-एकस्य वर्णसमूहात्मनः पदस्यानेकत्रार्थेऽनेकैव शक्तिः, शक्यतावच्छेदकभेदेन शक्तिभेदात् , ततश्च यत्रार्थे तात्पर्यग्राहक प्रकरणादिकमवतरति, उद्बुद्धया तद्वोचरवृत्त्या तदर्थोपस्थापनम् , अन्यस्याश्च तिरोधानम् , तया संयोगाद्यैः विरुद्धयाऽभिधया बोधयितुमशक्यस्यार्थस्य बोधने प्रभवन्ती वृत्तिय॑ञ्जना नाम । ननु श्लेषस्थल इवाभिधात एव द्वितीयार्थोऽपि प्रतीयतां कृतं व्यञ्जनयेति चेत् ? न-'वाचकत्वे नियन्त्रिते' इत्यनेन हि अभिधायाः प्रसरस्य निरोधोक्तेः । 'अत एव भन्यार्थग्रहे वृत्त्यन्तरापेक्षा' इत्यादि विस्तृतं तट्टीकाकृद्भिः ॥ __ शब्दशक्तिमूलव्यङ्गयस्य लक्षणमुक्त्वा तनेदमाह-स च प्रत्येकं द्विधेतिवाचक-गौण-लाक्षणिकानां प्रत्येकमित्यर्थः । द्विधेव्युक्तं तत् प्रकारद्वयमाहपदे वाक्ये चेति-यद्यपि मीमांसकादयो वाक्यं वाचकं न मन्यन्ते, तथाऽपि स्वमते तस्यापि वाचकत्वेन तथोक्तम् , तथा च शब्दशक्तिमूलस्य ध्वनेः षट् प्रकारा जाताः । 'संसर्गादिभिापारे नियन्त्रिते' इत्युक्तं तत्र संसर्गादयः के क्क सन्निविष्टाश्चेत्याकाङ्क्षायामाह-संसर्गादयश्चेमे भर्तृहरिणा प्रोक्ता इतिवाक्यपदीयद्वितीयाकाण्डस्थं कारिकाद्वयम्, संसर्गादीनां स्वरूपं निरूपयिष्यते, कारिकार्थश्वायम्-ससर्गादयः स्वरान्ताश्चतुर्दश, आदिपदगृहीताश्चेष्टाऽभिनयाद
NM
For Private And Personal Use Only