________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २३ ।
. यथा___"वनमिदमभयमिदानीं यत्रास्ते लक्ष्मणान्वितो रामः" [ ] इति "विना सीतां रामः प्रविशति महामोहसरणिम् ॥"[ ] इति च संसर्गाद् विप्रयोगाश्च दाशरथौ। "बुधो भौमश्च तस्योश्चैरनुकूलत्वमागतो" [ ] इति साहचर्याद ग्रहविशेषे।
यश्च, शब्दार्थस्य शब्दवाच्यार्थस्य, अनवच्छेदेऽनिश्चये [कतमोऽर्थोऽत्र विवक्षित इत्यनिश्चये जायमाने] तदपाकरणद्वारा विशेषार्थस्य विवक्षितार्थस्य, स्मृतिः-ज्ञानं, तद्धेतवः-तज्जनका भवन्तीत्यर्थः । कारिकानिर्दिष्टान् संसर्गादीन् प्रत्येकमुदाहरति । तत्र संसर्गः-नानार्थशब्दस्य शक्यान्तरवृत्तितयाप्रसिद्धत्वे सति तच्छक्यवृत्तितया प्रसिद्धः सम्बन्धः, तस्यार्थनिश्चायकत्वं यथा-वनमिदमिति-इदं वनमिदानीमभयं भवमवर्जितम् , तत्र हेतुमाहयत्र लक्ष्मणान्वितो राम आस्ते लक्ष्मणान्वितरामसत्तया हि तत्र भयस्याभावः, अत्र रामपदस्य जामदग्न्य-बलभद्र दाशरथिषु शक्तः सत्वेऽपि शक्यान्तरजामदग्न्य-बलभद्ररूपार्थद्वयवृत्तितयाऽप्रसिद्धः, तच्छक्यदाशरथिवृत्तितया प्रसिखुश्च, लक्ष्मणप्रतियोगिकः सम्बन्धो रामपदस्य दाशरथिरूपार्थज्ञाने हेतुः । विप्रयोगस्योदाहरणमाह-विना सीतां राम इति-अत्र सीताया विप्रयोगे रामपदस्य दाशरथिवाचकत्वम् , अत्र विप्रयोगो विश्लेषः, स च नियतं संश्लेषपूर्वः, तथा च विप्रयोगोऽपि तत्रैवाभिधानियामको यत्र संश्लेषः पूर्ववत् दल. द्वयाक्रान्तो भवेत् , तथा च ययोः संयोगः प्रसिद्धस्तयोरेव विप्रयोगोऽपि शक्ति नियमयतीतिसिद्धे यद्यप्यत्रापि संसर्ग एवं मूलं तथापि विप्रयोगस्थले स गुणतां भजमानो गुण-प्रधानसनिधौ प्रधानानुरोध एवं न्याय्य इति विप्रयोगस्यैव नियामकत्वमुक्तम् । साहचर्यस्योदाहरणमाह-बुधो भौमश्चेति-साहचर्यम्-एकस्मिन् कार्ये परस्परापेक्षित्वम् , बुधः-पण्डितो ग्रहविशेषश्च, भौमः-भूमिपुत्रो नरकासुरो ग्रह विशेषश्च, तथा चात्र बुधसाहचर्याद भौमो ग्रह एव, न नरकासुरः, एवं भौमसाहचर्याद् बुधोऽपि ग्रह एव न पण्डित इति विज्ञायते, स्वस्वार्थबोधाय परस्परमुभाभ्यां परस्परस्यापेक्षायाः सत्वात् । अथवा सहचरणम्-एककालदेशावस्थायित्वं वा साहचर्यम् , तथा च ग्रहत्वेनोभयोः सहचरण ज्यौतिषे प्रसिद्ध
For Private And Personal Use Only