________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
सालकारचूडामणौ काव्यानुशासने
"रामार्जुनव्यतिकरः सांप्रतं वर्तते तयोः[ ] इति विरोधाद् भार्गव-कार्तवीर्ययोः। "सैन्धवमानय, मृगयां चरिष्यामि" [ ] इत्यर्थात् प्रयोजनादश्वे । "अस्मद्भाग्यविपर्ययाद् यदि पुनर्देवो न जानाति तम् ।" [ ] इति प्रकरणाद् युष्मदर्थे । प्रकरणमशब्दं अर्थस्तु शब्दवानित्यनयोर्मेदः।
मिति तेनोभयोः शक्तिनियमः । विरोधिताया उदाहरणमाह-रामार्जुनव्यतिकर इत्यादि-'तयोः प्राकरणिकयोः कयोश्चित् , रामार्जुनव्यतिकरः रामार्जुनयोरिव सम्बन्धो वर्तते' इति वाक्ये विरोधितया रामः-परशुरामः, अर्जुन:कार्तवीर्याऽर्जुनः सहस्रबाहुरिति लभ्यते । विरोधिता हि प्रसिद्धं वैरं सहानवस्थानं च, प्रसिद्धं च भार्गव-कार्तवीर्ययोवैरम् । सहानवस्थानलक्षणं विरोधित्वं तु 'छायाऽऽतपौ' इत्यत्र, तत्र हि "छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः।" इत्यमरकोशेन छायाशब्दस्यानेकार्थत्वेनातपेन सहानवस्थानलक्षणविरोधाच्छायाऽत्राऽनातप इत्यवसीयते । अर्थस्योदाहरणमाह-सैन्धवमानयेति-अर्थ:प्रयोजनं चतुर्थ्याद्यभिधेयम् , अत्र मृगयाचरणरूपस्य कार्यस्य साधनाय सैन्धवमपेक्षमाणस्य पुंस उक्तावश्व-लवणयोः कतरस्य ग्रह इति संशयेऽर्थेन [प्रयोजनेन] सैन्धवपदस्याश्वरूपार्थनिर्णयः । प्रकरणस्यार्थनिर्णायकत्वमुदाहरति-अस्मद्भाग्यविपर्ययादिति-अत्र देव-शब्दस्य "अमरा निर्जरा देवाः' इत्याद्यमरकोशेन सुरेषु “राजा भट्टारको देवः" इत्यनेन राज्ञि च शक्तौ ज्ञातायामिह प्रकरणात् देवपदस्य युष्मदर्थता-राजार्थता, प्रकरणं वक्त-श्रोतूबुद्धिस्थता, अत्र वक्तुबुद्धौ राजैवेति प्रतीयते, तस्यैव सम्बोध्यत्वेन बुद्धिस्थत्वात् । युष्मदर्थ इस्यस्य संबोध्य इत्यर्थः । ननु प्रकरणेनैवात्र राजपदस्य बोधो यथा तथा पूर्वत्राऽपि मृगयाऽर्थ यात्राप्रकरणेन सैन्धवपदेनाश्वस्य बोध इति, तथा च यथाऽर्थेन [प्रयोजनेन] तत्र सैन्धवपदस्याश्वार्थनियमस्तथाऽत्रापि सम्बोधनरूपप्रयोजनेन देवपदस्य राजार्थरूपबोध इति विज्ञातुं शक्यत इत्येकेनैव द्वयोरपि लक्ष्ययोः सिद्ध्या निमित्तद्वयभेदः किमर्थमुपात्त इति चेत् ? अनाह-प्रकरणमशब्दमर्थस्तु शब्दवानित्यनयोर्भेद इति-प्रकरणं हि न शब्देन प्रतिपाद्यं, तद्धि वस्तुगतो धर्मः, अर्थस्तु मृगयादिः शब्दप्रतिपाद्य इत्यनयोर्भेद इति भावः ।
For Private And Personal Use Only