________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
wwwwwwwwwwwwwwwww
प्रकाशाभिधविवृतौ अध्या० १, २३ ।
२४५ __"कोदण्डं यस्य गाण्डीवं स्पर्धते कस्तमर्जुनम्" [ ] इति लिङ्गाश्चिह्नात्पार्थे ।
"किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः" [ ] इति शब्दान्तरसंनिधानात्कामे । लिङ्गमुदाहरति-कोदण्डमिति-अत्रार्जुनशब्दस्यानेकार्थत्वम् , तत्र लिङ्गात्चिह्नाद् गाण्डीवरूपात् , अर्जुनपदं पार्थ [पृथापुत्र ] रूपार्जुनबोधकं, न कार्तवीर्याजुनबोधकमिति भावः । लिङ्गं चिह्नमिति स्त्रमतम् । काव्यप्रदीपे च लिङ्गसंयोगातिरिक्तसम्बन्धेन परपक्षव्यावृत्तो धर्म इत्युक्तम् , तथा च गाण्डीवरूपो धर्मः [विशेषणीभूतोऽर्थः] संयोगसम्बन्धेनैव पार्थे वर्तत इति तल्लिङ्गतया न ग्रहीतुं शक्यत इति । नानार्थपदशक्यान्तरावृत्तिरेकशक्यगतः साक्षाच्छब्दवेद्यो धर्मो लिङ्गमिति नव्याः, तथा चात्र शक्यान्तरकार्तवीर्यार्जुनावृत्तिरेकशक्यपार्थगतो गाण्डीवकोदण्डधरत्वधर्मः, तेन धर्मेणार्जुनोऽत्र पार्थ इति निश्चीयत इति तेषामाशयः । लिङ्गपदस्यात्र चिह्नार्थत्वन्तु प्रदीपकारेण न स्वीक्रियते, तथा हि-काव्यप्रकाशे द्वि० उल्लासे "संयोगो विप्रयोगश्च" इति भर्तृहरिकारिकाव्याख्यानभूतवृत्तिव्याख्याप्रसङ्गे तेनोक्तम् यत् तु लिङ्ग चिह्नमिति तन-[ कुपितो मकरध्वज इति काव्यप्रकाशीयलिङ्गन्स्योदाहरणे] कोपस्य कामचिह्नत्वाभावात् , असाधारणधर्मस्य चिह्नत्वात् , सशङ्खचक्र इत्यादावतिप्रसक्तेश्चेति । एवं च तद्रीत्या कोदण्डं यस्य गाण्डीवमिति न लिङ्गस्योदाहरणं भवितुमर्हति, सशङ्खचक्रो हरिरित्यादिवदस्य संसर्गोदाहरणत्वस्यैव युक्तत्वात् , किन्तूक्तलिङ्गलक्षणस्यात्राऽपि घटनाल्लिङ्गोदाहरणत्वेनेदमुक्तम् , न च संसर्गोदाहरणभूतसशङ्खचको हरिरित्यादितः कोऽस्य भेद इति वाच्यम् , स्वमते संसर्गपदेन संयोगातिरिक्तसंसर्गस्य ग्रहणादन संयोगसंसर्गे तदप्रवृत्तेः । काव्यप्रकाशादौ च यद्यपि संसर्गस्य स्थाने संयोग एव पठ्यते, तथापि स्वग्रन्थस्य 'संसर्ग 'शब्दपाठमूलकत्वेन भेदस्योपपादयितुं शक्यत्वम् । __ अन्यशब्दसानिध्यस्योदाहरणमाह-किं साक्षादुपदेशयष्टिरिति।अन्यस्य शब्दस्य निश्चितार्थबोधकस्य सान्निध्येन-सामीप्येनानेकार्थस्य शब्दस्यैकत्रार्थे नियमनमिह विवक्षितम् , तथा चानेकार्थस्य देवशब्दस्य शृङ्गारिपदसानिध्ये कामदेवार्थत्वं निर्णीयते, शृङ्गारभूयस्त्ववाचकेन शृङ्गारप्राधान्यवाचकेन वा शुक्रा
MW
For Private And Personal Use Only