SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir M २३८ सालकारचूडामणौ काव्यानुशासने अत्र विलुलितालकमुखीत्वेनानवरतक्रीडासक्तिस्तया च सततसंभोगक्षामता ध्वन्यते ॥ २१ ॥ व्यङ्गयस्य मेदानाह व्यायः शब्दा-अर्थशक्तिमूलः ॥ २२ ॥ शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति व्यङ्गयो द्विधा, उभयशक्ति त्वद्गृहे हस्तिदन्ता व्याघ्रकृत्तयश्च विक्रेयाः सन्तीति तद्वाणिजकेन पृष्टो व्याधवृद्ध उत्तरयति-हे वाणिजक !-वणिज्याशील ! अस्माकं [गृहे इति शेषः] हस्तिनां दन्ता व्याघ्राणां कृत्तयः-चर्माणि च तावत् कुतः [स्युः], यावत् लुलिताःउल्लुठिताः, अलकाः-चूर्णकुन्तला मुखे यस्यास्तादृशी, सुषा-पुत्रस्य वधूः, गृहे परिष्वक्कते-सविभ्रमं परिभ्रमति, इति वाच्योऽर्थः । अलकालंकृतमुखत्वेन मनोहरतमायाः स्नुषाया विभ्रमावेक्षण-सुरतविलासाक्षिप्तचेत्ताः सन्तततदुपभोगक्षामो मत्सुतो मृगयार्थ क्षणमपि बहिर्न याति, तेन कुतो मद्गृहे हस्तिदन्तादीनां सम्भव इत्यमुमर्थ स्वतः सम्भविना तादृशस्नुषासत्वादिरूपार्थेन व्यज्यमानं विलुलितालकमुखीत्येतत्पदं प्रकाशयति । तदाह-विलुलितालकमुखीत्वेनेतिविलुलितालकमुखीत्वेनानवरतक्रीडासक्तिन्यअनमित्यर्थः। तया चेत्यस्य अनवरतक्रीडासत्या च, सततसंभोगक्षामता पुत्रस्येति शेषः, ध्वन्यते प्रकाश्यते । तेनापि च मृगयाविहारागमनमिति व्यङ्गयस्यार्थस्य व्यञ्जकत्वं स्पष्टमिति ॥ २१ ॥ व्यंग्यार्थसत्तां सप्रपञ्चं सोदाहरणं च प्रदर्श्य तद्भेदप्रदर्शकसूत्रमवतारयतिव्यङ्गयस्य भेदानाहेति।व्यङ्गयस्य व्यञ्जनया वृत्या प्रकाशितस्यार्थस्य, मेदान् प्रकारान् , आह-प्रतिपादयति-व्यङ्गयः शब्दाऽर्थशक्तिमूलः, इत्यनेन सूत्रेणेति । शब्दश्चार्थश्च शब्दाऽौँ तयोः शक्तिर्मूलं-व्यञ्जकं यस्येति विग्रहे शक्तिशब्दस्य द्वन्द्वान्ते श्रूयमाणतया प्रत्येकं सम्बन्धात्-शब्दशक्तिमूलः, अर्थशक्तिमूलश्चेति लभ्यते । काव्यप्रकाशादिषु शब्दार्थोभयशक्त्युद्भवोऽपि भेदः 'शब्दार्थोभयशक्तिमूलः' इति शब्देनैव प्रतिपादितः, तथा हि-तत्रत्या कारिका'शब्दा-ऽर्थोभयशक्तयुत्थास्त्रिधा स कथितो ध्वनिः" [चतुर्थोल्लासे ३८] शब्दशक्तिमूलानुरणनरूपव्यङ्गयः, अर्थशक्तिमूलानुरणनरूपव्यङ्ग्यः, उभयशक्तिमूला For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy