________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १ सू० २१ ।
अमुख्यस्य यथा
" साहंती सहि सुहयं खणे खणे दूमिया सि मज्झ कए । सज्झावनेहकरणिजसरिसयं दाव विरइयं तुमए ॥" [स० श० ८६० ]
२३७
अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम्, तेन च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्ग्यम् ।
व्ययस्य यथा
www
"वाणियय हत्थिदंता कुत्तो अम्हाण वग्धकित्तीओ | जा विलुलियालयमुही घरंमि परिसुक्कए सुन्हा ||" [सं० श० ९५१] स्येति । ततश्च शिष्टयोरमुख्यव्यङ्ग्ययोरुदाहरणीयतया प्रथमममुख्यस्य लक्ष्यस्योदाहरणमाह- साहन्तीति - " साधयन्ती सखि ! सुभगं क्षणे क्षणे दूनासि मत्कृते । सद्भाव स्नेहकरणीयसदृशकं तावद् विरचितं स्वया ॥” इति संस्कृतम् । प्रियस्यानयनार्थं तंप्रति प्रेषितां तं स्वयमुपभुज्यागतां सखीं प्रति नायिकाया उक्तिरियम्हे सखि ! मत्कृते मदर्थ, सुभगं सुन्दरं, [तनायकं ] साधयन्ती, -अनुनयन्ती, स्वं क्षणे क्षणे- प्रतिक्षण, दूनासि खिन्नासि, स्वया तावत् सद्भावः- साधुत्वं स्नेह:वात्सल्यं, तयोः करणीयं- कर्त्तव्यं, सदृशम् - उचितं विरचितं कृतमिति सद्भावस्य यत् करणीयं स्नेहस्य यत् सदृशं तत् स्वया कृतमिति भावः । लक्ष्य-व्यङ्ग्यौ परिचाययति - अत्र मत्प्रियं रमयन्त्येत्यादिना । प्रत्यक्षवीक्षितक्षामतादिचिह्नानुमितनिजप्रियोपभोगत्वात् मित्रत्वरूपस्य मुख्यार्थस्य बाधप्रतिसन्धानात् सदृशपदेन विसदृशं लक्ष्यते, तच्च मत्प्रियरमणेन शत्रुत्वाचरणरूपम्, मन्त्र मुख्यार्थ-लक्ष्यार्थयोवैपरीत्यरूपः सम्बन्धः, तेन लक्ष्यार्थेन च, कामुक विषयं [कामुकी च कामुकत्येकशेषादुभयोर्ग्रहणमित्युभयोर्विषये ] सापराधत्वप्रकाशनं व्यङ्ग्यमिति भावः । तदुक्तं प्रदीपेऽपि - " अत्रापकारिण्यां बाधावतारान्मुख्यार्थः श्रोत्रा प्रत्येतुं न शक्यत इति सद्भाव - स्नेहकरणीयविसदृशं मत्प्रियरमणेन शत्रुत्वाचरणरूपं विरचितमिति मुख्यविपरीतं लक्ष्यते, तेन च कामुकविषयसापराधत्वप्रकाशनं व्यङ्ग्यम्" [ का० प्र० उ० २ श्लो० ७] इति । व्यङ्ग्यस्यार्थस्य व्यञ्जकत्वमुदाहरति - वाणिययेति - "वाणिजक ! हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च यावलुलितालकमुखी गृहे परिष्वक्कते खुषा ॥” इति संस्कृतम् ।
For Private And Personal Use Only
1