SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालकारचूडामणौ काग्यानुशासने wwwwwwwwwwwwwwwwww आनीतं पुरतः शिरोंऽशुकमधः क्षिप्ते चले लोचने, वाचस्तत्र निवारितं प्रसरणं संकोचिते दोलते ॥"[ ] अत्र चेष्शायाः प्रच्छन्नकान्तविषय आकृतविशेषो ध्वन्यते । एवं वक्त्रादीनां द्विकादियोगेऽपि व्यञ्जकत्वमवसेयम् । तत्र वक्त चोध्ययोगे यथा अत्ता इत्थेत्यादि । अत्र वक्तृ-बोध्यपालोचनया शेष्वेति विधिरूपव्यङ्गयार्थप्रतीतिः। एवं द्विकयोगान्तरे त्रिकादियोगे च खयमप्यूह्यम् । एषु मुख्यार्थस्य व्यजकत्वमुदाहृतम् । शिरोंऽशुकं शिरःसम्बन्धिवस्त्रं, पुरतः अग्रतः आनीतम् , अनेन गूढमागच्छेति व्यङ्ग्यम् । ततः तदनन्तरं, चले चञ्चले, लोचने नेत्रे, अधःक्षिप्ते सञ्चारिते, एतेन सूर्यास्तसमयः संकेतकाल इति सूचितम् । तत्र तस्मिन् काले वाचः वचनस्य, प्रसरणं निर्गमन, निवारितं मुखमुद्रणेनेत्यर्थः, अनेन निःशब्दे समये निःशब्दं यथा स्यात् तथा वा समागन्तव्यमित्यावेदितम् । ततः दोलते भुजवल्यौ, संकोचिते संकुच्य मिथःसंयोजिते, अनेनागमनपारितोषिकमालिङ्गनं करोमीति ध्वनितम् । तदाह-अत्र चेष्टयेत्यादि-आकृतविशेषोऽभिप्रायविशेषः, सच प्रतिचेष्टं व्याख्यात एव । प्रत्येकं वत्रादीनां व्यञ्जकत्वमुदाहृत्यैषां मध्ये द्वयोस्त्रयाणां बहूनां वा सन्निपातेऽपि विशेषार्थप्रतीतिरिति गमयति-एवं वक्रादीनां द्विकादियोगेऽपीत्यादि । तत्र मार्गप्रदर्शनायैकमुदाहरति-तत्र वक्तबोध्ययोगे' इति-'अत्ता एत्थे' त्यादि-समुदाहृतपद्य इति शेषः । किमत्र व्यङ्ग्यमिति प्रतिपादयति-अत्र वक्तबोध्यपोलोचनयेति-उभयोरपि साभिलाषतया अत्र गृहे श्वश्रूरहं च, तत्र श्वश्रूश्च निःसञ्चारा, जनान्तरसञ्चाराभावश्च सिद्ध एवेति तात्पर्यपर्यालोचने सति, शेष्व स्वपिहि, मयि सङ्गम्येति शेषः । द्विकान्तरयोग इति-वक्तबोद्धव्यभिन्नकाक्वादिद्विकयोगे त्रिकयोगे चानुदाहृते स्वयमेवोहनीयं तेषां भूयस्त्वसंभावनया ग्रन्थगौरवभिया नात्रास्माभिः प्रदश्यत इति भावः । प्रकृतसूत्रव्याख्यायामर्थस्यापीत्यस्य मुख्या-ऽमुख्य-व्यङ्गयाऽऽस्मनोऽर्थस्येति व्याख्या कृतातत्र पूर्वोक्तोदाहरणेषु मुख्यार्थस्यैव व्यञ्जकत्वमुक्तमिति तदाह-एषु मुख्यार्थ, For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy