SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० ३, सू० २१। २३५ अध मधुसमये यदि व्रजसि तदहं तावन्न भवामि, तव तु न जानामि गतिमिति व्यज्यते । चेष्टाया यथाद्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया, प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम् । परवशः-अत्यन्ताधीनः, तत्सम्बुद्धिः, अथवा गुरुजन. एव परा:-शत्रवः, तद्वश! तदायत्त!, वसन्तसमये प्रियतमावियोजकप्रवासाय प्रयोजकतया तेषां शत्रुत्वम् , तव-वन्मात्रायत्तसर्वभावा, मन्दभागिनी-अल्पभाग्या, अहकम्अनुकम्पनीयाह, किं भणामि-किमपि कथयितुं न पारयामि, परायत्ते विषये वाक्प्रवृत्तेः साफल्यस्य सन्दिग्धत्वात् , अनौचित्याद्वा । ननु ततो मौनमेव किमिति नाश्रितम् , अलमुभयोश्चित्तविक्षेपकरणाशक्त्यादिप्रकाशेनेति चेत् ? अत्राहअद्य-वसन्तस्य रमणीयतमे समये, यत्र चिरप्रवासिनोऽपि गृहमायान्त्येव, तत्र, प्रवासं परदेशं प्रति, यदि ब्रजसि-गच्छसि तर्हि, व्रज, स्वयमकृतौचित्यविचारस्य परवशतामापन्नस्य कृतसर्वसन्नाहस्य दुर्निरोधत्वादनुज्ञानमेव वरमिति भावः, किन्तु, करणीयम्-अस्मिन् समये भवता किं कर्तव्यमासीदिति, मया वाऽस्मिन् समये किं करणीयमिति वा, स्वयमेव, न तु परद्वारा श्रोष्यसि । कतिचित्सु पदेषु गतेष्वेवाहं त्यक्तजीविता भविष्यामिति तत् त्वया स्वयमेव श्रोष्यते, ततस्त्वं किमाचरिष्यसीति त्वमेव जानासीति व्यङ्गयमित्याह-अद्य मधुसमय इत्यादिना। चेष्टाया व्यञ्जकत्वमुदाहरति-'द्वारोपान्तनिरन्तरे. इति । स्वगोचरचेष्टाविशेषेण स्वविषयकभावमवधारितक्तो नायकस्य सखायं प्रत्युक्तिरियम्-मयि, द्वारोपान्तस्य-द्वारसमीपदेशस्य, निरन्तरे-सन्निहिते सति, सौन्दर्यसारात्प्रधानसौन्दर्यात् , श्री:-शोभा यस्यास्तया, कमनीयतरकान्त्या, ऊरयुगं सक्थियुग्मं, प्रोल्लास्य प्रसार्य, परस्परसमासक्तम् अन्योन्यसंलग्नं, समासादित कृतम् , स्वयमेव विपरीतसुरतप्रदानमस्य व्यङ्ग्यम् , स्पृष्टनामकमालिङ्गनमनेन सूचितमिति केचित् , तत्स्वरूपं तु 'सम्मुखागतायो [प्रियायां ] प्रयोज्यायामन्यापदेशेन गच्छतो गात्रेण गात्रस्य स्पर्शनम्' इति वात्स्यायनेनोक्तम् । तथा For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy