________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४
सालङ्कारचूडामणौ काव्यानुशासने wwwmmmmmmmmmmmmm
नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽअलिर्वः ॥"
अत्र विविक्तोऽयं देशः, प्रच्छन्नकामुकस्त्वया विसय इति विश्वस्तां प्रति कयाचिनिवेद्यते । कालविशेषाद् यथा"गुरुयणपरवस ! प्पिय ! किं भणामि तुह मंदभाइणी अहयं । अज पवासं वचसि वञ्च सयंञ्चेव सुणसि करणिजं ॥"
[स० श०.८५१] उक्तिरियमिति वामनाचार्यः । हे सख्यः! अपरिहार्यप्रणयाः, यूयं कुसुमानांपुष्पाणाम् , अवचार्य-हस्तेनादानम् , इतोऽन्यत्र दूरे, कुरुत, अत्र अस्मिन् प्रदेशे, अस्मि अहम् , अस्ति क्षीरागौरित्यादाविवास्मीति विभक्तिप्रतिरूपकमव्ययम्-अहमथै प्रयुज्यते, करोमि० कुसुमावचायमिति शेषः, अस्माभिः सह कुतो नागच्छसीति चेत् ? हि यस्मात् , अहं दूरं भ्रमितुं सञ्चरितुं न समर्था शक्ता अयम् अञ्जलिः अपराधक्षमापनसूचकः प्रणामाञ्जलिः वः युष्मभ्यं, रचितः, प्रसीदत प्रसन्ना भवत । अत्र कुसुमावचायमित्यत्र हस्तादानेऽर्थे चिनोतेः प्रत्ययविधानादू यावद् हस्तप्रचेयकुसुमलाभस्तावद् दूरं बजतेति तासां निकटेऽसञ्चरणं स्वाभिलषितं व्यज्यते, यूयमिति बहुत्वादन्यत्र गमनेऽपि भयाद्यभावः, अत्रेत्यनेन श्रूयमाणमानवशब्दे कुआदिमति च प्रदेशे इत्यर्थकेन भयाद्यभावो विजनता च, अञ्जलिरित्येकवचनेन सर्वाभ्य एकोऽअलिरिति स्वासामर्थ्यमेव प्रकटितम् । __ अत्र व्यङ्ग्यमाह-अत्र विविक्तोऽयं देश इति-सख्योऽन्यत्र प्रेषिताः, तेन विविक्तः-विजनोऽयं देशो जात इति प्रच्छन्नः सखीवेषेणाच्छादितः, कामुकस्वया विसlः मां प्रति प्रेर्यतामिति विश्वस्तां स्वविश्वासभूमिभूतां काञ्चित् सखी प्रति, कयाचित् निवेद्यते देशवैशिष्टयाद् व्यज्यत इति तदर्थः । अत्र वाच्यार्थोऽन्यसखीविषयो, व्यङ्ग्यस्तु प्रियसखीविषय इत्यर्थः ।।
कालविशेषाद् व्यङ्ग्यप्रतीतिर्यथा-गुरुयणपरवसेति-"गुरुजनपरवश ! प्रिय ! किं भणामि तव मन्दभागिनी अहकम् । अद्य प्रवासं व्रजसि, व्रज, स्वयमेव श्रोष्यसि करणीयम् ।" इति संस्कृतम् । गुरुजनानां-पित्रादीनां,
For Private And Personal Use Only