SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशामिविवृतौ अध्या० १, सू० २१ । २३३ अत्र सन्ध्या संकेतकाल इति तटस्थं प्रति कयाऽपि द्योत्यते । प्रस्तावाद् यथा "सुव्वइ समागमिस्सइ तुज्झ पिओ अज पहरमित्तेण । एमेय किंति चिट्ठसि ता सहि ! सजेसु करणिजं" [स० श० ९६२] अत्रोपपतिं प्रत्यभिसर्तुं न युक्तमिति ध्वन्यते । देशविशेषाद् यथा___"अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः!। व्याजालम्बनेनापि नावकाश इति ध्वन्यते। श्वश्रूरित्यनेनानतिक्रमणीयाज्ञता, सकले-समग्रे गृहभरे गृहकार्यनिर्वाहे, [सकले इत्यनेन सार्वकालिकी व्यग्रता] मां नुदति-प्रेरयति । यदि क्षणमात्रं विश्रामो भवति तर्हि सन्ध्यायामेवेति । अत्र सुरतसंकेतकालाभिलाषिणस्तटस्थस्यान्यस्य सान्निध्यात् सन्निहितं तं प्रति यत् समयसक्केतबोधनं तद् व्यज्यते, तदाह-सन्ध्यासंकेतकाल इति तटस्थं प्रति कयाऽपि द्योतत इति ॥ प्रस्ताववैशिष्ट्याद् व्यञ्जकत्वमर्थस्योदाहरति-सुव्वइ० इति । “श्रूयते समागमिष्यति तव प्रियोऽद्य प्रहरमात्रेण । एवमेव किमिति तिष्ठसि, तत् सखि ! सज्जय करणीयम् ॥” इति संस्कृतम् । उपपति प्रति प्रस्थितां नायिका प्रति श्रुततत्पत्यागमनवा यास्तत्सख्या जनान्तरसन्निधानेऽभिसारनिवारणायोक्तिरियम् । अद्य-अद्यैव, प्रहरमात्रेण तव पतिः समागमिष्यतीति श्रूयते, तत्-तस्मात् कारणात् हे सखि ! एवमेव तदीयभोजनादिव्यापारराहित्येनैव, किमिति-किमर्थं तिष्ठसि, करणीयं-रन्धनादिकं, सजय-साधयेत्यर्थः । अनायेत्यनेन कालान्तरपरिहारः, तत्रापि प्रहरमात्रेण न तु बिलम्बेन, श्रूयते इति वर्तमाननिर्देशेन, न तु यदा कदाचिच्छ्रुतत्वप्रयुक्तो विस्मारादिसम्भवः । अत्र प्रस्तावेनोपपति प्रति अभिसरणप्रकरणेन तं प्रत्यभिसतुं न युक्तमिति व्यज्यते । तदाह-अत्रोपपति प्रतीति ॥ देशवैशिष्ट्याद् वाच्यस्यार्थस्यार्थान्तरव्यञ्जकत्वमुदाहरति-अन्यत्र यूयमिति । सखीवेषधारिणा स्वोपनायकेन सहाऽऽयातां प्रियसखीं दृष्ट्वा सखीः प्रति नायिकाया For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy