SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ सालङ्कारचूडामणौ काव्यानुशासने • किञ्चैतस्मिन् सुरतसुहृदस्तन्वि! ते वान्ति वाताः येषामने सरति कलिताकाण्डकोपो मनोभूः ॥” [ ] अत्र रतार्थ प्रविशेति व्यज्यते। अन्यासत्तेर्यथा "णोल्लेइ अणोल्लमणा अत्ता में घरभरंसि सयलंमि। खणमेत्तं जइ संझाए होइ न व होइ वीसामो॥" [स० श०८७५] अङ्कुरित:-असमप्युत्पादितः, विभ्रमः-'चित्तवृत्त्यनवस्थानं शृङ्गाराद् विभ्रमो मतः' इत्युक्तलक्षणो हावभेदो यत्र तादृशः। किञ्च अपि च, एतस्मिन् प्रदेशे ते मानिनीमानभङ्गेऽतिनिपुणत्वेन प्रसिद्धाः, सुरतस्य सुहृदः-सुरतश्रमहरणेन पुनः पुनस्तस्मिन् कर्मणि प्रवर्तनपटवः, वाता वान्ति, येषां वातानाम् , अग्रे पुरः, मनोभूः कामदेवः, कलितः-धृतः, भकाण्डे-अनवसरेऽपि, कोपो येन तादृशः सन् सरति चलतीत्यर्थः ॥ ___ अन्न तन्वीत्यनेन कंदर्पवेदनावत्त्वं, श्रमापनायकसत्त्वादत्रैव रतौचित्यं च व्यज्यते । नर्मदेत्यनेन नर्मक्रीडां ददातीति नर्मदा न तु नदीमात्रमिति व्यज्यते। उद्देश इत्यनेन दूरादेतैयंजनरुद्दिश्यते न तु तत्र गम्यत इति निर्जनत्वं व्यङ्ग्यम् , ऊर्ध्वदेशत्वेनाधः सञ्चरतां जनानामनवलोकनीयत्वं च, सरसेत्यशुक्लदलकृतकटुशब्दराहित्यम् , श्रेणीत्यनेन वेष्टनम् , तथा तत्पत्रावरणच्छायाऽनवलोकनीयता च सूच्यते । कुञ्जोत्कर्षाङ्कुरितेत्यादिना यासामपि न मरोद्भेदस्तासामप्यसौ तमावहतीति भत्त्या कामवैमुख्ये गुरुतरं व्यसनं संसूच्यते, किंचेत्यादीनामपि तहास्यजनकत्वमेव, तदेवाकलिताकाण्डकोपादिपदैरपि व्यङ्ग्यम् , मनोभूरित्यनेन सचेतसा दुष्परिहरत्वं व्यज्यते । इत्थं च वाच्यस्य नर्मदातीरस्य प्रदेशविशेषस्य सामर्थ्यात् 'रतार्थे प्रविशेति' व्यङ्ग्यत इति स्पष्टम् ॥ अन्यस्यासत्तेर्व्यञ्जकत्वं यथा--णोल्लेइ अणोल्लमणा० इति—"नुदत्यनाईमनाः श्वश्रूमा गृहभरे सकले । क्षणमात्रं यदि सन्ध्यायां भवति न वा भवति विश्रामः ।। इति संस्कृतम् । गुरुजनसानिध्येन विशिष्य वक्तुमशक्नुवती काचित् तटस्थतयेव सन्निहितमुपनायकं प्रति संकेतकालसूचनाय प्रतिवेशिनी संबोध्य श्वश्रूपालम्भमाइ-अनाम्-अकरुणं मनो यस्याः सा अनामनाः, अनेन श्रमादि For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy