________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २१ । २३१ सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयातस्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः॥"
[ ] अत्र नारायणरूपता गम्यते । वाच्यविशेषाद् यथा"उद्देशोऽयं सरसकदलिश्रेणिशोभातिशायी
कुजोत्कर्षाङ्कुरितरमणीविभ्रमो नर्मदायाः। द्वीपानां नाथैः-अधिपः, अनुयाताः-अनुगतोऽयं, सेतुं किमिति कसै प्रयोजनाय भूयो बनाति, लङ्काद्वीपाधिपस्य प्रतिकूलस्य दमनाय सेतुबन्धः कृतः, सम्प्रति च सकलद्वीपनाथेष्वनुगतेषु तद्वन्धस्यापि प्रयोजनं न दृश्यते इति भावः, इत्येवं वितर्कान् दधतो धारयत इवाम्बोधेः समुद्रस्य कम्प आभाति। अत्र संदेहोत्प्रेक्षयोः संकरो वाच्यः, तेन च प्रस्तुतस्य राज्ञो नारायणरूपता गम्यत इति रूपकध्वनिः, न च नात्र रूपकस्य ध्वनिरपि तु सन्देहोत्प्रेक्षानुपपत्तिबलात् तदाक्षेप इति वाच्यालङ्कारसंकराङ्गत्वं ध्वनेरिति गुणीभूतव्यङ्ग्यमिदं काव्यमिति वाच्यम् , यो योऽसंप्राप्तलक्ष्मीको निर्व्याजजिगीषाक्रान्तश्च स स मां मनीयादित्याद्यर्थसंभावनया संदेहोत्प्रेक्षयोरुपपनत्वात् । न च 'पुनरपि' 'पूर्वाम्' 'भूयः, इत्यतैः शब्दैरेवास्य नारायणरूपताऽऽकृष्टेति वाच्यम् , कर्तृभेदेऽपि समुद्रेक्यमात्रेण पुनरादीनामर्थस्योपपत्तेस्तेनाक्षेपासंभवात् । कर्तृभेदे कर्मण ऐक्ये क्रियाभेदश्च 'पूर्व पृथ्वी कार्तवीर्येण जिता, पुनर्जामदग्न्येनेति व्यवहारे प्रसिद्धिः । पूर्वा निद्रा च राजपुत्राद्यवस्थायां शासनवैययाभावाद् यथाऽऽसीत् तथा पुनर्न संभाव्यत इत्यनेनापि उपपन्ना, ततश्च नारायणत्वं नानुपपत्तिकल्प्यमपि तु रूपकध्वनिरेवेति सिद्ध्यति । स च ध्वनिर्वाक्यपर्यालोचनयाऽवसीयत इति ॥ . ___ वाच्यविशेषाद् व्यङ्ग्यप्रतीतिर्यथा-उद्दशोऽयं सरसेति । नायिका प्रति रत्यर्थस्य कामिनो रतौ प्रवर्तिकाया दूत्या वा उक्तिरियम् । हे तन्वि कृशता. योगिनि ! अयम् अग्रे दृश्यमानः, नर्मदायाः तशामक नद्याः, उद्देशः उच्चतीरप्रदेशः, अस्तीति शेषः, कीदृशोऽयं तत्राह-सरसानां-निग्धानां कदलीनां श्रेणयः-पङ्क्तयस्ताभिर्या शोभा-कान्तिस्तया अतिशय्यत इति तच्छील:; तथा कुआना-लतागृहाणाम्, उत्कर्षेण-गुजन्मधुकरकरम्बितकुसुमसौन्दर्यादिना,
For Private And Personal Use Only