________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
सालङ्कारचूडामणौ काव्यानुशासने अत्र मयि न योग्यो खेदः, कुरुषु तु योग्य इति काक्वा प्रकाश्यते । वाक्यविशेषाद् यथा
"प्राप्तश्रीरेष कस्मात् पुनरपि मयि तं मन्थखेदं विदध्यात्, निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि ।
खेदस्त भजति, कुरुषु कुर्वपत्येषु, [भस्यात्मपक्षसामान्यशब्दस्यापि विशेषसन्निधानाद्विशेषान्तरपरता, तेन दुर्योधनादिलाभः] अद्यापि एवं दुरवस्थायां जातायामपि, यहा अज्ञातवासनिस्तारात् प्रत्यपकारक्षमकालेऽपि, [खेदं] न भजतीति सोपहासो वाक्यार्थः, काका खेदकारणमेवाह-तथाभूतां दृष्ट्रेति । तथाभूता-स्त्रीधर्मिणी [रजस्वलां] दुःशासनाकृष्टवसनकेशपाशा, विशिष्याकथनीयदुरवस्था [ नमीक्रियमाणामिति यावत् ] नृपसदसि राजसभायां न तु यत्र कुत्रापि, पाञ्चालस्य-दुपदराजस्य पुत्री, न तु यस्य कस्यचित् , तेनातः पूर्व जन्मप्रभृत्यपरिभूतत्वमस्मत्सम्बन्धेनैव तथात्वमिति भावः । तथा वल्कलधरैः [अस्माभिः], वने व्याधैः साधं सुचिरं बहुकालं यावत् , उषितं निवासः कृतः, [तदृष्ट्वेति सम्बन्धः] विराटस्य राज्ञः, आवासे गृहे, अनुचितस्य-सूदादिकर्मणः, आरम्भेण-उद्योगेन, निभृतं-गुप्तं यथा स्यात् तथा स्थितम् [अस्माभिरिति शेषः ], तदपि दृष्ट्वा, खिन्ने मयि खेदं भजति, कुरुषु नेति सम्बन्धः। काका किं प्रकाश्यत इत्याह-मयि न योग्यः खेदः, कुरुषु तु योग्य इति । न च वाच्यस्य भ्रातरि खेदस्य दुर्योधनादिषु तदभावस्थानभूतं व्यङ्गयमिति गुणीभूतव्यङ्ग्यमिदमिति वाच्यम्, अत्र वाच्यार्थे पर्यवसन्ने सति व्यङ्ग्यप्रतीतिरिति गुणीभावाभावात् ॥ __ वाक्यविशेषाद् व्यङ्ग्यप्रतीतिमुदाहरति-प्राप्तश्रीरिति। वाक्यविशेषादित्यस्य विलक्षणैतद्वाक्यसहकृतेन वाक्यार्थेनैकस्यान्यस्यार्थस्य व्यञ्जनं भवतीति । तथा हिहे राजन् ! त्वयि आयाते उपगते सति प्राप्ता श्रीर्येन स एष, पुनरपि भूयोऽपि, मयि तं पूर्वानुभूतं, मन्यखेदं मन्दरगिरिविलोडनकष्ट, विदध्यात् कुर्यात् , श्रियः प्रात्यर्थमेव हि पूर्वमहमनेन मन्थितः, तत्प्राप्तौ च प्रयोजनान्तरं पुनर्मन्थनस्य नावबुध्यते इति भावः, अनलसमनसः भालस्यशून्यहृदयस्यास्य पूर्वी प्राचीनां [ महाप्रलयान्तरभाविनी] निद्रामपि न संभावयामि । सकलानां
For Private And Personal Use Only