SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ मध्या० १, सू० २१ । २२९ अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते। काकुलनेर्विकारस्तद्विशेषाद् यथा"तथाभूतां दृष्ट्रा नृपसदसि पाञ्चालतनयां, वने व्याधैः सार्ध सुचिरमुषितं वल्कलधरैः। विराटस्यावासे स्थितमनुचितारम्भनिभृतं, गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥" [वे०सं० अं० १ श्लो. ११] तदनवकाशात् ; व्यङ्ग्यपक्षे तटे एव मर्दनाधिक्यात् , सन्ध्यादौ नायककरपरामर्शायोगाच्च तटमेव स्तनयोस्तथाभूतमिति व्यक्तमेव। एवम् अधरः अधरोष्ठः, निःशेषं मृष्टो [न तु ईषन्पृष्टो] राग:-ताम्बूलरक्तिमा यस्य तथाभूतः, उत्तानत्वे बहुलजलसम्बन्धात्, न तूत्तरोष्ठो न्युन्जत्वेन जलासम्बन्धात् ; व्यङ्ग्यपक्षे तु अधरोष्ठ एव कामशास्त्रे चुम्बन विधेरक्तत्वेन उत्तरोष्ठे तदनुक्तेः, तत्रैव [भधरोष्ठ एव] चुम्बनकृतं निर्मुष्टरागत्वम्। किञ्च नेत्रे चक्षुषी, दूरं प्रान्तभागे एव, अनाने कजलरहिते, स्नानकाले नयनयोर्मुद्रणात् , मध्ये जलसम्बन्धाभावात् , व्यङ्ग्यपक्षे तु प्रान्ते एव कामशास्त्रे चुम्बनविधेमध्ये तनिषेधाच तत्रैवानञ्जनत्वम् , तथा इत्थं दृश्यमाना, तव तनुः शरीरं, तन्वी कृशा-नानजन्यशीतस्वात् संकुचिता, अत एव च पुलकिता सञ्जातरोमोद्मा; व्यङ्गयपक्षे तु कार्य सुरतश्रमात्, पुलकश्च तत्रानुभूताद्भुतरसस्मरणादित्यर्थः । विदग्धाया गूढतात्पर्ययाऽनया वाचोयुक्त्या मानसाधारण्येन संभोगचिह्नेष्ववगतेषु प्रतिपाद्य (बोद्धव्य) वैशिष्ट्यात् तदन्तिकमेव रन्तुं गतासीति दूत्याः स्वयं तत्कामुको भोगो व्यज्यते । तदाह-अत्र दूत्या इत्यादिना ॥ ___ काकुशब्दव्याख्यानपूर्वकमुदाहरणावतरणमाह-काकु:-ध्वनेर्विकारः, तद्विशेषाद्यथेति । काकुः पूर्व व्याख्याता, तदुदाहरणं यथा-तथाभूता. मिति । वेणीसंहारनाटके दुर्योधनादिभिः सह सन्धिप्रस्तावो युधिष्ठिरेण क्रियते न तु युद्धोद्यम इति श्रुत्वा तमुपलभमानं भीमं प्रति 'भार्य ! कदाचित् खिद्यते गुरुः [ युधिष्ठिरः] इति वचसा तमुपलम्भान्निवर्तयन्तं सहदेवं प्रति भीमः 'गुरुः किं खेदं जानाति' इत्युपक्रम्याहेदम्-गुरुः साक्षादनभियोज्यो ज्येष्ठो भ्राता [ युधिष्ठिरः] इत्थममुना कारणेन खिन्ने म्लाने मयि, खिद्यतेऽनेनेति Www For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy