________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ww
२२८
सालङ्कारचूडामणौ काव्यानुशासने अत्र चौर्यरतगोपनं गम्यते । प्रतिपाद्यविशेषाद्यथा"निःशेषच्युतचन्दनं स्तनतटं निर्मुष्टरागोऽधरो, नेत्रे दूरमनाने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि ! दूति ! बान्धवजनस्याशातपीडागमा, वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥"
[अ० श० १०५ ] परपुरुषसंभोगात्मक स्वप्रवृत्तिप्रयोजनं, तथा तत्र कर्मणि जायमानतयाशक्यमानानि नखरदनक्षतादीनि संभोग चिह्नानि च गाजलग्नानि-अपहनोतुं भर्तृपिपासाक्षपानीद्यानयनं प्रयोजनं, तमालाकुलं नदीकुलं गन्तव्यस्थानमतिनिबिडतयाऽशक्यपरिहारैर्नलग्रन्थिभिर्गात्रगतविकारविशेषोद्गमं चाभिदधे। तस्याश्चासाध्वीत्वेनावगतौ चौर्यरतगोपनरूपं व्यङ्गय प्रतीयत इति वक्तृवैशिष्टयस्य व्यञ्जकत्वं स्पष्टम् । तदाह-अत्र चौर्यरतगोपनं व्यङ्ग्यमिति ।
प्रतिपाविशेषाद् व्यङ्ग्यमुदाहरति-निःशेषच्युतचन्दनं स्तनतटमितिनायकानयनाय प्रेषितां तं समुपभुज्य समागतां दूती प्रति स्नानकार्यप्रकाशनमुखेन संभोगं प्रकाशयन्या विदग्धोत्तमनायिकाया उक्तिरियम् । अयि मिथ्यावादिनि![तदन्तिकमगत्वैव 'मया गत्वा बहुशः प्रसादितोऽपि नायातः' इति] मिथ्याभाषणशीले ! बान्धवजनस्य मद्रूपस्य सुहृजनस्य, अज्ञातः[स्वार्थपरायणतया ] अनाकलितः, पीडागमो-दुःखप्राप्तिर्यया तथाभूते ! दूति ! सन्देशहरे! न तु सखि ! मप्रतारणपरायणत्वात् , अनेन सम्बोधनेन च मिथ्याभाषणयोग्यताऽपि व्यज्यते त्वम् इतः मत्सकाशात्, वापी दीर्घिकां, स्नातुं जलावगाहनं कर्तुं, गतासि, तस्य बहुधाकृतापराधस्य, अत एव अधमस्य दुःखप्रयोजककर्मशीलस्य [नायकस्य ], अन्तिकं समीपं, न पुनः नैव गतासि । वापीनानोपपादकान्याह-निःशेषेत्यादि । यतस्तव सनयोः-कुचयोः, तटं-प्रान्तसमदेशः, निःशेषं यथा स्यात् तथा, च्युतं-स्खलितं चन्दनं यस्मात् तथाभूतम् , न तु उरःस्थलं, नापि सन्ध्यादिरूपनिनोचतभागोऽपि, वापीगतबहलयुवजनत्रपापारवश्यात् , अंशद्वयलग्नाग्रस्वस्तिकीकृतभुजलतायुगलेन तटस्यैवोन्नततया मुहुर्मुहुः, परामर्शात, मत एव च्युतमित्युक्तं न तु च्यावित क्षालितं वेति, युवजनसम्मर्दैन
For Private And Personal Use Only