________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सु० २१।
२२७
वक्तृविशेषाद् यथा"दृष्टिं हे प्रतिवेशिनि ! क्षणमिहाप्यस्मगृहे दास्यसि, प्रायो नास्य शिशोः पिताध विरसाः कौपीरपः पास्यति । एकाकिन्यपि यामि तदरमितः स्रोतस्तमालाकुलं, नीरन्ध्राः पुनरालिखन्तु जरठच्छेदा नलग्रन्थयः॥"
[क०व० स० ५०० विद्यायाः]
नायकादिवा; यं बोधयितुं शब्द उच्चार्यते स प्रतिपाद्यो बोद्धव्य इति यावत् ; काकुर्जिह्वा तत्सम्पाद्यत्वात् क्रोध-शोकभीत्यादिभिर्ध्वनिविकारः काकुः, तथा चोक्तममरेणापि-"काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्वनेः" । इति; साकाङ्क्षाणां पदानां समूहो वाक्यम् ; शत्योऽर्थो वाच्यः; अन्यस्य वक्तृबोद्धव्यभिमस्य, आसत्तिः-सन्निधानं सामीप्यमिति यावत् ; प्रस्तावः प्रकरणम् ; देशो विजनादिः; कालो वसन्तादिः; चेष्टाऽवयवव्यापारविशेषः; एते आदौ येषां ते च ते विशेषाः-अर्थ विशेषयितारः, तेषां वशात्-साहाय्यात् , मुख्यामुख्यव्यङ्गयान्मनोऽर्थस्यापि व्यञ्जकत्वमिति सूत्रार्थः । क्रमेणोदाहरति-वक्तविशेषाद यथा-दृष्टिं हे प्रतिवेशिनीति । परपुरुषेण सह रमणायाभिसरन्त्याः कस्याश्चिदविनयवध्वा गृहान्तरवर्तिनी काञ्चित् स्त्रियं प्रतीयमुक्तिः-हे प्रतिवेशिनि ! समीपस्थगृहवासिनि !, क्षणं मत्पत्यावर्तनकालपर्यन्तम् , इह अस्मद्गृहेऽपि खगृहावेक्षणवदस्मद्गृहावेक्षणायापि दृष्टिं दास्यसि मद्गृहगतागतमपि द्रक्ष्यसि, यथा निषिद्धगतयः श्वादयोऽन्ये वा चौर्यकामुका जना नात्र प्रविशेयुरिति भावः । कुतस्त्वयि सत्यां ममाय नियोग इति चेदनाह-अस्य दृश्यमानस्थानवबोधस्य, शिशोः मत्तनयस्य, पिता, जनको मत्पतिरिति यावत् , प्रायेण बाहुल्येन, तृप्त्येत्यर्थः, विरसाः कुस्वादाः, कौपी: कूपसम्भवाः, अपः जलानि न पास्यति तस्याऽयं कादाचित्कः स्वभाव इति द्योतनाय भविष्यकालप्रयोगः। इतः कारणात्, एकाकिन्यपि सहायान्तररहितापि, महं, सत्वरं शीघ्रं, तमालाकुलं तमालतरुपरिवृतं स्रोतो नदीप्रवाहस्थानं, यामि, तत्र च नीरन्ध्राः अत्यन्तघनाः, जरठच्छेदाः चिरच्छिनतया कठोरतमामाः,नलग्रन्थयो नलाख्यतृणपर्धप्रदेशाः, तनुं मम सकलमेव शरीरम् आलिखन्तु क्षतविक्षतं कुर्वन्तु । अत्र विशिष्टे संकेतस्थाने
For Private And Personal Use Only