SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२६ MAANV सालङ्कारचूडामणौ काव्यानुशासने अभिधानन्तरं च यद्यप्यन्वयप्रतिपत्तिनिमित्तं तात्पर्यशक्तिरप्यस्ति, तद्विषयस्तात्पर्यलक्षणोऽर्थोऽपि, तथापि तौ वाक्यविषयावेवेति नात्रोक्तौ ॥ २०॥ वक्त्रादिवैशिष्टयादर्थस्यापि व्यञ्जकत्वम् ॥ २१॥ वक्त प्रतिपाद्य-काकु-वाक्य-वाच्या-ऽन्यासत्ति-प्रस्ताव-देश-कालचेष्टादिविशेषवशादर्थस्यापि मुख्या-5मुख्यव्यङ्गयात्मनोव्यञ्जकत्वम्। तत्र-तासु चतसृष्वपि शक्तिषु मध्ये, समयेत्यादि-समयम्-पुराणपुरुषकृतं सङ्केतमपेक्षत इति तदपेक्षावाच्योऽर्थों मुख्योऽर्थोऽवगम्यते यया सा शक्तिर्मुख्या, अभिधा च सा कथ्यते। गौणी-लक्षणे च समाननिमित्तके इति ते एकदैव लक्षयति-मुख्यार्थेत्यादि-मुख्यार्थबाध आदौ येषां ते मुख्यार्थबाध-मुख्यार्थसम्बन्ध प्रयोजनरूपाः सहकारिणो-निमित्तकारणान्यपेक्षत इति तथाभूता; अर्थस्य प्रतिभासनं-मुख्यार्थानुगतत्वेन रूपेणावगमनं यया सा शक्तिगौणी लक्षणा चाभिधीयते। एतेन च परैरेकत्रैव लक्षणायामुभयोवृत्त्योः समावेशोऽपि संगृहीतः। व्यञ्जनां लक्षयति-तच्छक्तीति-ताभिः-पूर्वमुपवर्णिताभिस्तिसृभिः, शक्तिभिःअभिधा-गौणी-लक्षणाख्याभिः, उपजनित:-सम्पादितो योऽर्थावगमः-मुख्याद्यर्थबोधः, तेन पवित्रिता-परिष्कृता या प्रतिपतृणां-बोद्धृणां प्रतिमा-नवनवोल्लेखशालिनी बुद्धिः तत्सहाया-तदपेक्षा, अर्थद्योतनस्य-विलक्षणप्रकारेणार्थप्रतिपादनस्य, शक्तिः सैव व्यञ्जकत्वमुच्यत इत्यर्थः । ननु तात्पर्याख्यामपि वृत्ति केचन मन्यन्ते, दृश्यते च तदनुकूलो व्यवहारः सर्वत्रेति तदनिरूपणेन न्यूनतेति चेत् ? अनाह-अभिधानान्तरं च यद्यपीति-अभिधायाः साक्षात्संकेतितार्थबोधकत्वेन शक्त्यन्तराऽनन्तरितशक्तित्वेन वा प्राथम्येऽपि तदव्यवहितोत्तरत्वेन यद्यपि शब्दार्थसम्बन्धप्रतिपत्तिनिमित्तं तात्पर्याख्या शक्तिरप्यस्ति, सर्वसम्मता, तथा च तद्विषयस्तात्पर्यविषयोऽर्थोऽप्यवश्यमेषितव्यः, तथापि तौ-सा वृत्तिः सोऽर्थश्च, वाक्यविषयौ-वाक्यगताविति शब्दगतशक्त्यर्थयोविवेचनप्रकरणे तयोविवेचनमप्रासङ्गिकमिति न तावत्रोक्ताविति ॥२०॥ न केवलं शब्द एव व्यञ्जकः, अपि त्वर्थोऽपीत्यर्थस्यापि व्यञ्जकत्वं दर्शयितुं सूत्रमाह-वनादिवैशिष्ट्यादित्यादि । आदिशब्दग्राह्यानुदाहरति-वक्तप्रतिपायेत्यादिना । यः परप्रतिपत्तये वाक्यमुच्चारयति स वक्ता, स च कविस्तनिबद्धो For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy