________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २०। २२५ एवम्-अलङ्कारभेदा रसादिभेदाश्च व्यङ्ग्या मुख्यादिभ्यो व्यतिरिका ज्ञेयाः । तद्विषयो व्यञ्जका शब्दः ॥ १९॥
मुख्याधास्तच्छक्तयः॥ २०॥ मुख्या-गौणी-लक्षणा-व्यञ्जकत्वरूपाः शक्तयो व्यापारा मुख्यादीनां शब्दानाम् । तत्र समयापेक्षा वाच्यावगमनशक्तिर्मुख्याऽभिघा चोच्यते । मुख्यार्थबाधादिसहकार्यपेक्षाऽर्थप्रतिभासनशक्तिरेंणी लक्षणा च । तच्छक्त्युपजनितार्थावगमपवित्रितप्रतिपत्तप्रतिभासहायार्थद्योतनशक्तियंजकत्वम् ।
तदयमुपसंहृतो व्यङ्गयोदाहरणविभागः, तस्य च वाच्यताविलक्षणत्वमित्यपि प्रदर्शितमेव, तदेवं पुनहियति-एवमलङ्कारभेदा रसादिभेदाश्चेति । मुख्यादिभ्य इत्यत्रादिशब्देन गौणलक्ष्ययोः संग्रहः। तथा च यथा वाच्यगौणलक्ष्यभिन्नत्वं व्यङ्गयार्थस्य तद्वृत्तावुदाहरणमुखेन प्रदर्शितं, विवेके च विविच्य प्रतिवादिमतनिराकरणपूर्वकमुपपादितमिति व्याख्यातपूर्वम् । तद्विषयः-स व्यङ्गयोऽर्थो विषयः प्रतिपाद्योऽस्य स शब्दो 'व्यञ्जकः' कथ्यत इति शेषः ॥१९॥
तदेवं मुख्य-[वाचक] गौण-लक्षक-व्यञ्जकभेदेन काव्यशरीरभूतानां शब्दानां, तदर्थानां च मुख्य-गौण-लक्ष्य-व्यङ्ग्यानां वर्णनेऽवसिते तादृशार्थप्रतिपादनाय तेषु शक्तेरपि स्वीकार आवश्यक इति तच्छक्तीनां प्रदर्शनाय सूत्रमाह-"मुख्याद्यास्तच्छक्तयः" [२०] इति। भादिपदसंग्राह्यानामतो निर्दिशति-मुख्यागौणी-लक्षणा-व्यञ्जकत्वरूपाः इति-साक्षात्संकेतितत्वेनाभिधाया मुख्यात्वेन व्यवहारः, गुणादागतत्वमिति गौण्या योगार्थः, लक्ष्यते परगतो धमों यया स! च लक्षणा, व्यञ्जयति-विविधरूपेण प्रकाशयत्यर्थमिति व्यञ्जकः शब्दस्तस्य भावस्तत्त्वम् , तथा च व्यञ्जकशब्दनिष्ठोऽसाधारणधर्मरूपो व्यञ्जनापदप्रतिपायः। तेषां-मुख्यादीनां शक्तयः-तच्छक्तय इति विग्रह शक्तिपदार्थ परिचाययतिव्यापारा इति-व्यापारत्वं च तज्जन्यत्वे सति तज्जन्यजनकत्वम् , तथा च ताः शक्तयस्तेभ्य एव समुद्भूतास्तजन्यार्थप्रत्यायनकारिकाश्चेति तासां व्यापारत्वम् यद्यप्यभिधाशकेरनादित्वमिति नास्ति जन्यत्वं तथापि तत्र समवायेन सम्बन्धित्वमात्रे तात्पर्यान्न दोषः सर्वासां लक्षणानि क्रमश आह-तत्र समयापेक्षेति
का० १५
For Private And Personal Use Only