Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 284
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० २३ । २५५ तत्र शब्दःस्खलदतिः, न च किञ्चित् प्रयोजनमस्ति, अथ प्रयोजनेऽपि लक्ष्ये प्रयोजनान्तरमाकामयते, तर्हि तत्रापि प्रयोजनान्तराकाङ्क्षायामनवस्था स्यात् , तथा च लाभमिच्छतो मूलक्षतिः । न च प्रयोजनसहितमेव लक्ष्यं लक्षणाया विषय इति वक्तुं शक्यम् , विषयप्रयोजनयोरस्यन्तमेदात्, प्रत्यक्षादेरपि प्रमाणस्य विषयो घटादिः, प्रयोजनं च किं प्रयोजनान्तरं स्यात् , न च प्रयोजनं विना लक्षणासम्भवतीति भावः । तत्रापि प्रयोजनान्तरस्वीकारे तस्य व्यञ्जनया प्रतीतावभ्युपगम्यमानायामन्ते रण्डाविवाहन्यायः । अथ तदर्थमपि लक्षणास्वीकारे तत्रापि प्रयोजनान्तरापेक्षेत्यनवस्थेत्याह-अथ प्रयोजनेऽपि लक्ष्य इत्यादिना न चेयमनवस्था बीजाङ्कुरवा दोषायेति चेत् ? अत्राह-तथा च लाभमिच्छत इति अयमाशयः-बीजाकुरस्थले न मूलक्षतिः, तत्र हि न तदङरजन्येन बीजेन तदङ्करस्योत्पत्तिः, भपि तु वृक्षान्तरजन्येन बीजेनेति तत्र न मूलक्षतिः, इह च प्रयोजनं विनाऽसंभवन्त्या लक्षणया प्रयोजनं लक्ष्यते चेत् ? तत्राऽपि प्रयोजनान्तरसद्भाव विना मूलभूता लक्षणैव नोदेतुमर्हतीति मूलक्षतिः । तदुक्तम्-मूलक्षतिकरी चाहुरनवस्थां हि दूषणमिति ॥ अथ शैत्य-पावनत्वादिप्रयोजनसहित एव तटार्थो लक्षणया बोध्यते, गङ्गायास्तटे घोष इत्यतोऽधिकस्यार्थस्य प्रतीतिश्च प्रयोजनमिति चेत् ? अबाहन च प्रयोजनसहितमेवेति । कुत इत्याह-विषयप्रयोजनयोरत्यन्तभेदादिति-लक्ष्यार्थो विषयस्तटादिः, प्रयोजनं च शैत्य-पावनत्वादिः, विषयप्रयोजनयोश्च महदन्तरं दृष्टमिति तयोः साहित्यं न सम्भवति । विषय-प्रयोजनयोर्भेदं दृष्टान्तेन द्रढयति-प्रत्यक्षादेरपि प्रमाणस्येति-अक्षमिन्द्रियं प्रति यदुत्पद्यते तज्ज्ञान प्रत्यक्षम्, इन्द्रियार्थसन्निकर्षजन्यमिति यावत् , प्रत्यक्षादेरित्यत्रादिपदेनानुमानादेः परिग्रहो बोध्यः, तस्य विषयो घटादिरिति-तस्यैव प्रमेयत्वात् । प्रयोजनं फलं तु, अर्थाधिगतिः । अर्थ्यते प्रार्थ्यते यः सोऽयों घटादिस्तस्याधिगतिर्ज्ञानम् , इति सामान्यतः सकल जनसम्मतः पन्थाः, प्रकटता घटज्ञानानन्तरं ज्ञातो घट इति प्रत्ययात् तज्ज्ञानेन तस्मिन् घटे ज्ञाततोत्पद्यते, सैव प्रकटतेति भाहमीमांसकानां मतम् , सैव च प्रत्यक्षाविज्ञानस्य फलमिति तैराख्यायते, तार्किक-प्रभाकरयोर्मतमाह-संवित्तिर्वेति-घटज्ञाने सति घटमहं जानामीति प्रत्ययरूपोऽनुव्यवसायो जायते, स एव संवित्तिरित्याख्याता घट For Private And Personal Use Only

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340