Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
सालङ्कारचूडामणौ काव्यानुशासने • किञ्चैतस्मिन् सुरतसुहृदस्तन्वि! ते वान्ति वाताः
येषामने सरति कलिताकाण्डकोपो मनोभूः ॥” [ ] अत्र रतार्थ प्रविशेति व्यज्यते। अन्यासत्तेर्यथा
"णोल्लेइ अणोल्लमणा अत्ता में घरभरंसि सयलंमि। खणमेत्तं जइ संझाए होइ न व होइ वीसामो॥"
[स० श०८७५] अङ्कुरित:-असमप्युत्पादितः, विभ्रमः-'चित्तवृत्त्यनवस्थानं शृङ्गाराद् विभ्रमो मतः' इत्युक्तलक्षणो हावभेदो यत्र तादृशः। किञ्च अपि च, एतस्मिन् प्रदेशे ते मानिनीमानभङ्गेऽतिनिपुणत्वेन प्रसिद्धाः, सुरतस्य सुहृदः-सुरतश्रमहरणेन पुनः पुनस्तस्मिन् कर्मणि प्रवर्तनपटवः, वाता वान्ति, येषां वातानाम् , अग्रे पुरः, मनोभूः कामदेवः, कलितः-धृतः, भकाण्डे-अनवसरेऽपि, कोपो येन तादृशः सन् सरति चलतीत्यर्थः ॥ ___ अन्न तन्वीत्यनेन कंदर्पवेदनावत्त्वं, श्रमापनायकसत्त्वादत्रैव रतौचित्यं च व्यज्यते । नर्मदेत्यनेन नर्मक्रीडां ददातीति नर्मदा न तु नदीमात्रमिति व्यज्यते। उद्देश इत्यनेन दूरादेतैयंजनरुद्दिश्यते न तु तत्र गम्यत इति निर्जनत्वं व्यङ्ग्यम् , ऊर्ध्वदेशत्वेनाधः सञ्चरतां जनानामनवलोकनीयत्वं च, सरसेत्यशुक्लदलकृतकटुशब्दराहित्यम् , श्रेणीत्यनेन वेष्टनम् , तथा तत्पत्रावरणच्छायाऽनवलोकनीयता च सूच्यते । कुञ्जोत्कर्षाङ्कुरितेत्यादिना यासामपि न मरोद्भेदस्तासामप्यसौ तमावहतीति भत्त्या कामवैमुख्ये गुरुतरं व्यसनं संसूच्यते, किंचेत्यादीनामपि तहास्यजनकत्वमेव, तदेवाकलिताकाण्डकोपादिपदैरपि व्यङ्ग्यम् , मनोभूरित्यनेन सचेतसा दुष्परिहरत्वं व्यज्यते । इत्थं च वाच्यस्य नर्मदातीरस्य प्रदेशविशेषस्य सामर्थ्यात् 'रतार्थे प्रविशेति' व्यङ्ग्यत इति स्पष्टम् ॥
अन्यस्यासत्तेर्व्यञ्जकत्वं यथा--णोल्लेइ अणोल्लमणा० इति—"नुदत्यनाईमनाः श्वश्रूमा गृहभरे सकले । क्षणमात्रं यदि सन्ध्यायां भवति न वा भवति विश्रामः ।। इति संस्कृतम् । गुरुजनसानिध्येन विशिष्य वक्तुमशक्नुवती काचित् तटस्थतयेव सन्निहितमुपनायकं प्रति संकेतकालसूचनाय प्रतिवेशिनी संबोध्य श्वश्रूपालम्भमाइ-अनाम्-अकरुणं मनो यस्याः सा अनामनाः, अनेन श्रमादि
For Private And Personal Use Only

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340