SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० १९ । विगतमत्सराया मम न तथा नखपदादि चिह्नं भवदङ्गसङ्ग खेदावहं यथा— अर्धनिष्पन्नसंभोगतयाऽधरदशना संपत्तिरितीयकोपगोपनमुपभोगोद्भेदेन कृतं - वाच्योऽर्थः । तद्बलसमुत्थस्तु -सहदयोत्प्रेक्षितोऽत्यन्तवाल्लभ्यान्मुखचुम्बनपर एव तस्यास्त्वं यत् त्वदधरखण्डनावसरोऽस्या वराक्या न संपन्न इति न केवलं तस्या भवातिलभो यावद्भवतोऽपि सा सुतरां रोचत इति वयमिदानीं त्वत्प्रेमनिराशाः संजाता इति नायिकाभिप्रायो - व्यङ्ग्यः । कचिद्वाच्याद विभिन्नविषयत्वेन व्यवस्थापितो यथा“कस्स व न होइ रोसो दट्टण पिआइ सव्वणं अहरं सभमर पउमग्याइरि वारिअवामे सहसु इहि ॥ [सं० श० ८८६ ] wwwwwww भूषितमङ्गं यस्य तादृशः, निद्रया कान्तं प्रत्याह-नवमुखैः- नखाघातैः, प्रसाधितं घूर्णन्ती लोचने यस्य स त्वं तथा मम हृदयं न दूनयसि यथा, हे श्यामलाङ्ग ! निर्वणाधरः- नायिकाकर्तृका धरपानसूचक चिह्नरहिताधरः मम हृदयं दूनयसि - दुःखीकरोषीत्यन्वयः । अत्र किं वाच्यं किं वा व्यंग्यमिति वृत्तावेव स्पष्टम् तथा हि-विगतमत्सरायाः त्वामन्योपभोगचिह्नितमपि विलोक्य मत्सरेण , ― २२३ > या रहिताया मम भवदङ्गसङ्गि नखपदादिचिह्न, मत्सपत्नीकृतं भवदङ्गे वर्त्तमानं नखाघातादि चिह्न तथा अत्यन्तं न खेदावहं दुःखजनकं, यथाऽर्धनिष्पन्नसम्भोगतयाऽधरदशनस्यासम्पत्तिः अधरस्य निर्व्रणत्वेन तयाsधरो न दृष्ट इति सम्भोगस्यार्धनिष्पन्नत्वं प्रतीतम्, खेदावहेति, उपभोगोद्भेदेन सपत्नीसंगम प्रकटनपूर्वकम्, ईर्ष्या कोपगोपनं कृतं वाच्योऽर्थः । तद्बलसमुत्थस्तु - - वाच्यार्थेन प्रतीयमानस्तु "अत्यन्तवाल्लभ्यात् तस्या अतिशयवल्लभावेन त्वं स्वयमेवान्तं यावत् मुखचुम्बनपर आसीः, यत् यस्मात् अस्या वराक्याः [ व्यञ्जनया महाभाग्यायाः ] तवाधरस्य खण्डनायावसर एव न त्वया दत्तः, इति न केवलं तस्या भवानतिवल्लभः [ नखपदा दिसूचितत्वात् ] किन्तु [ निर्वणाधरत्वेन सूचिता ] साऽपि तवातिवल्लभेति वयमिदानीं त्वत्प्रेमनिराशा इत्यादि नायिकायाः अभिप्रायः” व्यङ्ग्यः सहृदयैरुत्प्रेक्षित इति ॥ इत्थं कथञ्चिद्वाच्यसम्बद्धान् व्यङ्ग्यानुदाहृत्य साम्प्रतं वाच्याद् विभिन्न विषयं व्यङ्गयमुदाहरति-कस्स व ण होइ इति । "कस्य वा न भवति For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy