________________
हीरसौभाग्यम् सर्ग २ श्लो० १०-११ अमुना कुंरासाहनाम्ना महेभ्येन स्वगोधनस्य निजगोकुलस्योपधिना कपटेन धा. मनि अर्थादात्ममन्दिरे इमाः सकलजगजनदृग्गोचराः सुधाशधेनवः कामगव्य इव अरक्ष्यन्त रक्षिताः । किं कृत्वा । वदान्यता दानशीलत्वं तस्या गुणैरुत्कर्षः स्फूर्तिभिर्वा मिथः परस्पर परिस्पर्धितया समन्तात्स्पर्धनशीलत्वेन विजित्य पराभूय गृहे रक्षिताः ॥
साथ કરાશાવે ગેકુળના બહાને પોતાના ઘરમાં જાણે કામધેનુ ગાયનું રક્ષણ કર્યું હતું. શા માટે ? પોતાના દાનેશ્વરીપણાના ગુણની સાથે પરસ્પર સ્પર્ધાને કરતી હોવાથી તે કામધેનુઓને પરાભવ કરીને જાણે પિતાના ઘેર રાખી લીધી ન હોય? ૧૦
सुपात्रसस्नेहगुणाग्र्यवृत्तिभृ-त्तमःप्रतीपः स्वकुलप्रकाशकृत् । प्रदीपदेश्योऽपि पर न धूमभाक्, कुल न चाध्यामलयत् कदापि यः ।।११।।
यो महेभ्यः प्रदीपस्य देश्योऽपि सदृशोऽपि सन् । 'देव देवेन्द्रदेशीयम्' इति पाण्डवचरित्रे । पर केवल कदापि कस्मिन्नपि प्रस्तावे न धूमभाक् न निषेधे कोपयुक्तो वभूव । धूमशब्देन कोपः। यथा भक्तामरस्तोत्रे–नि मवत्तिरपवर्जिततैलपूर-' इति । दीपस्तु धूमयुक्तः । च पुनः कदाचिदपि कुल वंशमपवादादिना नाध्यामलयन्न मलिनीचकार । दीपस्तु यत्र रक्ष्यते तद् गृह स्थान वा श्यामलयति । 'कुलकुल्यगणे गेहे देहे जनपदेऽन्वये' इत्यनेकार्थः । किंभूत इभ्यः । सुशोभनानि पात्राणि महाव्रताणुव्रतधारकादिसंघो यस्य, तथा सहस्नेहेन देवे गुरी स्वजनादिपु प्रीत्या वर्तते यः सः, तथा गुणेरौदायर्यादिभिरग्रयां मुख्यां वृत्ति वाणिज्यादिकामाजीविका वा विभर्तीति । 'वृत्तिस्तु वर्तने । केशिक्यादौ जीवने च' इत्यनेकार्थः । सर्वेष्वप्यग्रेसरो वा । पश्चात्कर्मधारयः । पुनः कि भूतः । तमसामज्ञानानां पापानां वा प्रतीपः शत्रुः स्वय पुण्यकर्माण्याचरन् परानपि धर्म दृढीकरोति । पुनः किंभूतः । स्वस्यात्मनः कुलमोकेशवंशस्तत्र प्रकाशकृत् उद्योतकर्ता । स्वेन सूरिसिंहेन सूनुना वा । दीपोऽपि पात्रकलितः, स्नेहेन तैलेन युक्तः। 'तैल स्नेहोऽभ्यञ्जन च' इति हैम्याम् । तन्तुप्रधानदशाधारकः । 'वृत्तिर्वतिश्च तद्दशा' इति हैम्याम् । तथा ध्वान्तोच्छेत्ता, यस्मिन् गृहे येन वा प्रबोधितस्तदेव तस्य वा गेह तत्रोद्योतकारकः॥
બ્લેકાર્થ કુરાશાહ દીપકતુલ્ય હેવા છતાં કયારેય કોઈને પ્રત્યે ક્રોધાતુર બનતા ન હતા. અથવા નિંદા આદિથી કયારે પણ પોતાના કુલને મલીન કરતા ન હતા. દીપક તો જે સ્થાને રાખવામાં આવ્યા હોય તે રથાનને ધૂમાડાથી મલીન કરે છે. વલી દેવ, ગુરુ, સંધ સ્વજન આદિ સુપાત્રો પ્રત્યે પ્રીતિને