Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

View full book text
Previous | Next

Page 582
________________ - मर्ग ८ श्लो० १०३-१०६] हीरसौभाग्यम् ५५७ ક્ષયી, આવા પ્રકારના ચંદ્રથી ઉઠેગ પામેલી ચંદ્રિકા, દેવીના મુખરૂપ ઉપદ્રવરહિત સ્થાનમાં દાંતની કાંતિ-( સ્ના)ને બહાને આવીને રહી ન હોય ! ૧૦૩મા यस्याः पृणनिर्जरदृक्चकोरान्, दन्तप्रभाभिर्वदन दिदीपे । शरद्विनिद्रीकृतचन्द्रिकाभि-विभावरीणामिव सार्वभौमः ॥१०॥ यस्या देवताया दन्तप्रभाभिर्दशनदीप्तिभिः कृत्वा वदन मुख दिदीपे । वदन किं कुर्वत् । मृणत् प्रीणयत् । 'पृण प्रीणने' तुदादिधातोरय' प्रयोगः । कान् । निर्जरा देवास्तेषां दृशो लोचनान्येव चकोरा ज्योत्स्नाप्रियास्तान् । क इव । सार्वभौम इव । यथा विभावरीणां शर्वरीणां सार्वभौमश्चक्रवर्ती प्राणनाथश्चन्द्रः। 'कन्दर्पेऽनल्पदर्प विकिरति किरणाशार्वरीसार्वभौमः' इति नाटकग्रन्थे। शरदा घनात्ययेन विनिद्रीकृता जलधरधारावधीरणेन निर्मलीकृत्य विस्तारिता याश्चन्द्रिकाश्चन्द्रगोलिकास्ताभिः कृत्वा दीप्यते ॥ . શ્લોકાથ. જેમ શરદકાલીન ચંદ્ર નિર્મલ એવી ચંદ્રિકાથી શોભે છે, તેમ દેના નયનચકોરને ખૂશ કરતે દેવીને મુખરૂપી ચંદ્ર, દાંતની પ્રભા-(કાંતિ)થી શોભે છે. ૧૦૪ स्मितश्रिया मिश्रितदन्तकान्ति-वकास्ति गीर्वाणमृगेक्षणायाः । बन्दीकता चन्द्रमसं विजित्य, ज्योत्स्नास्य दारा वदनेन विदमः॥१०५।। गीर्वाणस्य अमोघसदसद्धचनप्रपञ्चनाराचस्य देवस्य मृगेक्षणाया हरिणलोचनायाः स्त्रियः शासनदेवतायाः स्मितस्य कथंचिद्विनोदावसररसविनिर्मितहसितस्य श्रिया श्वेतिमलक्ष्म्या मिश्रिता करम्बिता व्याप्ता दन्तानां दशनानां कान्तिःप्तिश्चकास्ति दीप्यते । तत्र वयमेव विमो जानीमो वितर्क वा कुर्मः उत्प्रेक्षामहे वा । वदनेन देवतामुखेन अर्थानिजजगजित्वरवैभवेन चन्द्रमसं कुमुदबान्धवं विजित्य पराभूयास्य चन्द्रमसः दारा जाया ज्योत्स्ना कौमुदी बन्दीकृता निगृह्य रक्षितेव । 'विन इत्युत्प्रेक्षाविषयेऽपि भवेत्' इति काव्यकल्पलतायाम् ॥ इति सस्मितदन्तकान्तिः ॥ . લેકાર્થ દેવીના હાસ્યની લક્ષ્મીથી વ્યાપ્ત એવી દાંતની તિ શેભે છે. દેવીના મુખની શોભાથી ચંદ્રને જીતીને તેની પત્ની ચંદ્રિકાને જાણે કેદી બનાવી ન હોય ! ૧૦પ मरुन्मृगाक्षीवदनाब्जदन्तै-स्तारेशतारैर्विजितेवि भूत्या । आलोच्यते तद्विजिगीषयेव, संभूय तीरेऽम्बरनिर्झरिण्याः ॥१०॥

Loading...

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614