Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

View full book text
Previous | Next

Page 580
________________ सर्ग ८ श्लो. १००-१०२] हीरसौभाग्यम् भूता पराजिता सती रक्ताङ्कराजी विद्रुममालिका हृदि मनसि विषये हृदये वक्षसि वा कृष्णवल्लीम् । 'कालिवेल' इति लोकप्रसिद्धा । तद्रूपं तामेव वा शल्य शूककण्टकादीनां शलाका हृदये मर्मप्रविष्टशस्त्रं वा । 'शल्य शाशलाकयोः' इत्यनेकार्थः । तथा 'शल्यं शरीरान्तर्गत शस्त्रादिसीमाच्छिद्र वंशादोनां शलाकाविशेषश्च' इति लिस्मानुशासने । अद्यापि अद्यतन दिन यावन्न पर्यहार्षीत् न परिहरति स्म हदये पवावतिष्ठमानमास्ते किम् । नंष्ट्वा यदधरोदुरविरोधिविरुद्धविधानातिसाध्वसात्प्रणश्य पयोधिः समुद्रस्तस्य मध्ये अत्यगाधजलान्तः प्रविष्टा प्रविश्य स्थितापि ॥ इत्यधरः ॥ બ્લેકાર્થ દેવીના અધર સાથેના સંગ્રામમાં પરાભવ પામેલી પરવાલાની પંક્તિ નાશીને સમુદ્રના અગાધ જલમાં પ્રવેશી હોવા છતાં પણ હજુ સુધી કાલીવેલરૂપ પરાજ્યના શલ્યને છોડતી નથી. ૧૦ बन्धूकबन्धूभवदेतदीय-दन्तच्छदे दन्तरुचिश्वकासे । निपेतुषी कोकनदच्छदाङ्के, शरत्सुधादीधितिकौमुदीव ॥१०१।। बन्धूको बन्धुजीवः । 'विपोहरिया' इति लोकप्रसिद्धिः । स रक्तकुसुमः स्यात् । तथा 'बन्धुजीवविघात ग्रीष्मदिवसावसानजनाः' इति चम्पूकथायाम् । ग्रीष्मे हि बन्धूकानि शुष्यन्ति । तथा 'बन्धूकप्रसवारुणाम्बरधराम्' इति लघुस्तवेऽपि । तस्य बन्धूककुसुमस्य बन्धूभवन् सहोदरो मित्र वा जायमानो य एतदीयो देवतासंबन्धी दन्तच्छदोऽधरस्तत्र निपेतुषी पतनशीला पतिता वा दन्तानामर्थाद्देवीदशनानां रुचिः कान्तिश्चकासे दीप्यते स्म । उत्प्रेक्ष्यते-कोकनदस्य विकसितरकोत्पलस्य यच्छद पत्र तस्याश्के उत्सङ्गे निपेतुषी समीयुषी प्राप्ता शरदो घनात्ययस्य सुधादीधितिरमृतवत् शरत्कालेन जलधररोधोपरोधावधीरणेन निर्मलीकृतत्वादुज्ज्वला अतिविशदीभूता दीधितयः कान्तयो यस्येत्यन्वर्थनामा चन्द्रस्तस्य कौमुदी चन्द्रिकेव । अथवोपमा । यथा रक्तकमलपलाशे शारदीननिशानायककौमुदी शोभते ॥ શ્લોકાર્ય લાલ પુષ્પના સદર (બંધુ)રૂપ દેવીના અધર ઉપર રહેલી દાંતની પંક્તિ શોભે છે. તે જાણે રક્તમલનાં પાત્રોની મધ્યમાં પડેલી શરદઋતુના ચંદ્રની ચંદ્રિકા ન હોય ! ૧૦ पीयूषपूर्णस्मरकेलिशोण-मणीनिबद्धाधरदीर्घिकायाम् । यस्या विनिद्रद्विजचन्द्रिकाभि-राश्रीयते कैरविणीवनश्रीः ॥१०२॥ यस्याः शासनसुर्याः विनिद्वन्तीभिर्विजम्भमाणाभिद्विजानां दन्तानां चन्द्रिकाभियों स्नाभिः । कान्तिभिरित्यर्थः । 'दशनचन्द्रिकया व्यवभासितम्' इति रघौ । कैरविणीनां

Loading...

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614