Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

View full book text
Previous | Next

Page 584
________________ मर्ग ८ श्लो० १०८-१०९] हीरसौभाग्यम् ५५९ त्रिदश्याः शासनामायाः दन्ता दशना उद्यन्ती प्रकटीभवन्ती उच्चैर्निर्यान्ती वा द्युत्कान्तिस्तया कृत्वा । उत्प्रेक्ष्यते-इति हेतोः इन्दविध प्रकर्षेण हसन्तीव श हास्य सृजन्तीव । इति किम् । यत् हे इन्दो हे जड मूर्ख जडस्वरूप जडाशय । 'किमु. दधौ जड वा वडवानलात' इति नैषधे चन्द्रसंबोधन जड इति । अस्माकं परस्ताहन्तानामग्रे वराकः तपस्वी द्रमको वा त्वं कः । न कश्चिदपीत्यर्थः । वराकतामेवादर्शयतिकिंमतस्त्वम । पाण्डः पाण्डुरोगवान् श्वेतकष्ठविनष्टवपः । भतादिबद्धबलविग्रहो वा। पुनः किंभूतः । क्षयी राजयक्ष्मारोगोऽस्यास्तीति । क्षयात्प्रतिदिन कलानामपगमात् । बहुलपक्षे वपुषः क्षीणता अस्त्यस्मिन्निति वा क्षयी । पुनः किंभूतः । शून्य निर्मानुष तथानेनैव सम्यक्तया बभस्तीति भातीति नभः कुत्सितस्थानम् । 'निशानभासदृशे' इति चम्पूकथायाम् । निशानस्तेजस्विभिर्वीरभस्ति शोभते इति निशानिभास्तथा सदृशः इ. कामो यस्य तस्य मंबोधनम् । पक्षे रात्रिगगनतुल्ये इति तट्टिप्पन (ण)के । तत्र नगरग्रामाराममानवादिरिक्तके स्थानके चरिष्णुः संचरणशीलः श्मशानादिषु भक्षणशीलो वा । 'चर गतिभक्षणयोः' अस्य धातोः प्रयोगत्वेन जग्धिः स्थितिश्चेति द्यर्थता । पुनः किंभूनः । निर्गतमग शरीर यस्य । विष्णुना सुदर्शनचक्रे शिरोवशेषीकृतत्वादगरादित्यम् । तादृशाद्राहोः विधुतुदाद द्विषतो वैरिणः सकाशाद्विभ्यद्भयमाकलयन् । पुनः किंभूतः। दोषाणामपगुणानामाकरः खनिः निशाकरश्च । पुनः किंभूतः । श्याम कलकेन कृत्वा कृष्ण मुख वक्त्रं यस्य । प्रायः कलङ्ककलिताः श्यामानना एव स्युः । पुनः किंभूतः । एको नास्ति द्वितीयः सदृशः कोऽपि एवंविधस्त्वक । वयं पुनः कीदृशाः। हंसवत् उभयपक्षविशुद्धत्वेन द्योतन्ते इति । पुनः किंभूताः । अक्षीणन क्षीयते स्मेत्यक्षीणम् अनिष्ठीयमान संपूर्ण वा सुख सात येषाम् । एतावता रोगराहिंत्यसातवन्तः। पुनः किंभूताः । मुखे सर्वेषामप्यग्रे वक्त्रे च तिष्ठन्ति इति मुखस्थाः । एतावता सुस्थानभाजः। पुनः किंभूताः । जिताः स्वकीयपरमवैभवैरभिभूताः वज्ररत्नकुन्दतारकादयोऽहिताः प्रतिस्पधिनो यैस्ते जिताहिताः । एतावता निवैरिताः(णः)। पुनः किंभूताः। स्फीता विश्वविख्याता वृद्धि प्राप्ता वा गुणा येषां ते स्फीतगुणाः । एतावता गुणवत्त्वम् । पुनः किंभूताः । विशेषेण शुद्धा निष्कलङ्काः सर्वत्रावदाताः । एतावता सर्वदाप्युच्चैःशिरसः । पुनः किंभूताः । नैके अनेके द्वात्रिंशत्प्रमाणत्वेन । एतावता वृद्धिभाजः सगोत्रत्वात् । पुनः किंभूताः । अभि लक्षणयुक्त रूपं येषाम्। 'अभिर्वीप्सालक्षणयोः' इत्यनेकार्थः अभिरूपाः पण्डिताः । 'विद्वान्सुधीः कविविचक्षणलब्धवर्णाः शप्राप्तरूपकृतिकृष्टयभिरूपधीराः' इति हैम्याम् ॥ युग्मम् ॥ શ્લોકાર્થ દેવીના દાંત પોતાની પ્રસરતી જ્યોતિ (કાંતિ)થી ચંદ્રનો આ પ્રમાણે જણે ઉપહાસ કરતા न होय ! यद्र, हे भूमी, 13 माशयवाणा ! अभारी माग (Eid मागण) तु शु માત્ર છે? જે, તું પાંડુરોગી, ક્ષયરોગી, નિર્જન એવા નર્ભ (ખરાબ) (આકાશ) સ્થાનમાં ચાલનાર

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614