Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

View full book text
Previous | Next

Page 589
________________ ५६४ हीरसौभाग्यम् [ सर्गः ८ श्लो० ११७-११८ परिमलमत्तालिपटलवाचालाः। तदपि स एकरसालः कोकिलहृदि हन्त जागर्ति ॥' इति । उच्चैरतिशयेन बाढस्वरेण वा पञ्चमनाम्नो रागस्य गीतिर्गानं कण्ठकुहरान्तरानेकतानलयमूर्छनाघोलनापूर्वको ध्वनि, अभ्यस्यते अभ्याससाध्यो विधीयते । यः पठन् शास्त्राभ्यास कुरुते स बाढस्वरेणैव उद्धो(द्घोष कुरुते । किंभूतेन पिकेन । तरुभ्योऽर्था. न्माकन्दपादपेभ्यो भैक्ष मञ्जरीकलिकारूपंभिक्षाणां समूहो भैक्षम् । अत्र समूहार्थेऽणप्रत्ययः । भुनक्ति अश्नातीति तेन भक्षभुजा । उत्प्रेक्ष्यते-स्पृहयालुनेवाभिलाषुकेनेव । कस्यै । जगतां त्रिजगजनानां श्रवसां कर्णानामुपोषितानामिव पारणायै सुधायै अमृतरसभूतायै ॥ શ્લોકાર્ધ ‘પ્રાયઃ કેલેનું મન આમ્રવનમાં જ રમે છે કહ્યું છે કે “પ્રત્યેક બીજાં નવ-પલ્લવિત ઘણય વૃક્ષો હોવા છતાં એક આમ્રવૃક્ષ જ કેકિલાના હૃદયમાં સ્કુરાયમાન હોય છે. તેથી દેવીની વાણીરૂપ આબવનમાં નિરંતર આમ્રવૃક્ષની મંજરી આદિ જ જેનું ભક્ષ્ય છે તેવી કોકિલાવડે ગાઢ સ્વરે પંચમસ્વરને અભ્યાસ કરાયો, શા માટે ? જગતના ઉપવાસી એવા કણેને સુધારસનું પાન કરાવવા भारे गए मती न होय ! ।। ११७ ।। स्वरैकसार परवादिनीभ्यः, संगृह्य जाने जलजासनेन । विधीयते स्म ध्वनितं त्रिदश्या-स्ताभ्योऽतिरिच्येत न चेत्कुतस्तत् ॥११८॥ परवादिनीभ्यः सप्ततन्त्रीविपञ्चीभ्यः । 'साथ तन्त्रीभिः सप्तभिः परवादिनी' इति हैम्याम् । सर्ववीणासकाशात् स्वराणाम् 'षइज-ऋषभ-गान्धार-मध्यम-पञ्चम-धैवत-निषध [निषाद]-इति सप्तानां तन्त्रीभवानां ध्वनीनाम् ‘षड्जऋषभगान्धारा मध्यमः पञ्चमस्तथा । धैवतो निषधः सप्त तन्त्रीकण्ठोद्भवाः स्वराः॥' इति हैम्याम् । अत्र तु वल्लकीकणानामेवोपादान [तेषां] मध्यादेकमद्वितीय सार श्रेष्ठदलम् । 'सारा मजास्थिरांशयोः । बले श्रेष्ठे च' इत्यनेकार्थः । संगृह्य संग्रह कृत्वा गृहीत्वा वा जाने वेनि । उत्प्रेक्ष्यते वा-अहमेव चिद्गोचरीकरोमि । जलजासनेन कमलविष्टरेण ब्रह्मणा त्रिदश्या वीरशासनदेवताया ध्वनित सारस्वरो विधीयते स्म कृतम् । एवं चेन्न तर्हि तद्ध्वनित देवीनिस्वनस्ताभ्यः परवादिनीभ्यः कुतोऽतिरिच्यते कस्मात्कारणादधिकीभवति ॥ કલેકાર્થ સહતંત્રી આદિ વીણાઓમાંથી નીકળતા પ૪, ભ, ગાંધાર, મધ્યમ, પંચમ પૈવત અને નિષધ, આ સાત સ્વરોમાંથી અદ્વૈત સારભૂત એક દલોને સંગ્રહ કરીને બ્રહ્માએ જાણે દેવીનો સ્વર બનાવ્યા ન હોય ! જે એમ ના હોય તો સપ્તતંત્રીઓથી દેવીને સ્વર અધિક કઈ રીતે હેઈ श: ? ॥ १८ ॥

Loading...

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614