Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah
View full book text
________________
मर्ग ८ श्लो० १६३-१६५] हीरसौभाग्यम्
५८५ प्रेक्ष्य स्वदाहे ज्वलितास्त्रमालां, जेयं कथं विश्वमिदं मयेति ।
पितामहोऽदान्मदनस्य तस्याः, सीमन्तदण्ड विमनायितस्य ॥१६३॥ पितामहो ब्रह्मा पितुः पिता च इत्यमुना प्रकारेण विमनायितस्य विरुद्धमना इवाचरितस्य विमनस्कीभूतस्य मदनस्य । उत्प्रेक्ष्यते-तस्या मन्युभुङ्मानिन्याः सीमन्तमेव दण्ड प्रतिभटकोटिकटिकाप्रतिहतिप्रचण्डरदण्डनमदादिव पौत्रप्रेम्णा प्रदत्तवानिव । इति किम् । स्वदेहदाहे शंभुना कोपानलेनात्मशरीरभस्मीकरणसमये ज्वलितां दग्धां भसितीभूतामस्त्रमालां प्रहरणपटली प्रेक्ष्य निर्णीय । अथो भस्मीभूताशेषास्त्रसंघातेन मया विजयिना मदनेन विश्व त्रिभुवन कथं केन प्रकारेण जेय जेतव्यं पराभवनीयं वशीकर्तव्य वा इति ॥
શ્લોકાઈ ઇશ્વરે રોષથી પોતાના શરીરને ભસ્મીભૂત કરી દેતાં પિતાના સર્વશસ્ત્રોને બળી ગયેલાં જોઈને હવે મારે કેવી રીતે ત્રણ જગતને જીતવા ” આ પ્રમાણે વિમનસ્ક બની ગયેલા કામદેવને, જાણે પિતામહ બ્રહ્માએ પૌત્રનેહથી દેવીના “ સેંથા ” રૂ૫ દંડન અર્પણ કર્યું ન હોય ! ૧૬
सिन्दूरपूरप्रचितेन तस्याः, सीमन्तदण्डेन शिरोरुहाली ।
विद्युद्विलासेन पयःप्रपूर्णा, पयोमुचां पक्तिरिव व्यराजत् ॥१६४॥ पूरशब्दोऽत्र लक्षणया समूहवाची। सिन्दूरपूरेण शृङ्गारभूषणगणेन प्रचितेन व्याप्तेन । सिन्दूरपूरितेनेत्यर्थः । सीमन्तदण्डेन कृत्वा तस्या देवतायाः शिरोरुहाली कचच्छटा व्यराजद्भाति स्म । का केनेव । [पणेमुचां] पक्तिर्विद्युद्विलासेन । यद्वा पयोभिः पानीयैः प्रपूर्णानां निर्भर भृतानां पयोमुचां वर्षन्मेघानां मालिका तडिद्विलसितेन कृत्वा विद्युद्विजम्भितेन कृत्वा विराजते ॥ इति सीमन्तः ॥
બ્લેકાર્થ . જેમ વિઘુલતા ( વિજલી )થી જલવડે પરિપૂર્ણ મેવોની પંકિત શમે છે તેમ સિંદૂરના સમૂહથી વ્યાપ્ત સેંથાવડે દેવીને કેશસમૂહ શોભે છે. મે ૧૬૪ છે
प्रफुल्लमल्लीकुसुमावनद्ध-यत्केशपाशः स्फुरयांबभूव ।
अपूजि पुष्पैरिव चामरादि-द्विषज्जयस्यावसरे दिगीशैः ॥१६५।। प्रफुल्लैविकसितैमल्लया मल्लिकाया वि कलस्य । 'मल्लीभिः प्रतिमल्लीभाव दधती विभाति भावत्की' इति राजवर्णने । कुसुमैः पुष्पैरवनद्धो ग्रथितो यस्यां मरुत्सीमन्तिन्यां केशपाशः स्फुरयांबभूव विभ्राजते स्म । अत्र स्वार्थे त्रिः केवलार्थकथयित्री। उत्प्रेक्ष्यतेचामरादीनाम् । आदिशब्दात्कलापिकलापविधुतुदक्षपाणां ग्रहः । द्विषतां परस्परस्पर्धाविर्भावाद्वैरिणामेव विजयस्य पराभवनस्यावसरे प्रस्तावे दिगीशैस्तद्वैरिविजयव्यालोकनोद्भूताद्वैताश्चर्यैरशेषाशापालकैः पुष्पैः कुसुमैः कृत्वा अपूजि पूजितोऽभ्यर्चित इव ॥

Page Navigation
1 ... 608 609 610 611 612 613 614