Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah
View full book text
________________
५८४
हीरसौभाग्यम् सर्ग ८ श्लो० १६१-१६२ श्रीस्पर्धया यच्चिकुरान्विजेतुं, व्यवस्यमानान्स्वमवेत्य बहः ।
त्रासात्प्रणश्यन्निव नीलकण्ठः, पृष्ठे प्रविष्टः शरणाभिलाषी ॥१६१॥ बर्हः कलापः त्रासात् रात्रौ आकस्मिकातङ्कात् । 'त्रासस्त्वाकस्मिक भयम् इति हैम्याम् । प्रणश्यन् प्रपलायमानः सन् शरणमात्मत्राणमभिलषतीत्येवंशीलः नीलकण्ठो महादेवो मयूरश्च । तस्य पृष्ठे प्रविष्ट इव । नीलकण्ठ शरणीचकारेत्यर्थः । किं कृत्वा । थिया शोभया लक्ष्भ्या वा या परस्पर्धा संघर्षः तेन कृत्वा स्वमात्मानं विजेतु पराभवितु व्यवस्यमानानुद्यम कुर्वाणान्प्रगल्भमानान्देवीकेशान्कुन्तलानवेत्य ज्ञात्वा ॥ इति केशपाशः ॥
કલેકાર્થ પિતાની શોભાવડે જીતવાનો પ્રયત્ન કરતા દેવીના કેશસમૂહને જાણીને, ભયથી ત્રાસ પામીને નાસી જતો શરણભિલાષી પીંછાને સમૂહ જાણે મયૂરની પાછળ પ્રવેશી ગયો ન હોય ! ૧૬ના
सीमन्तदण्डः सुरपद्मदृष्टे-रुन्मादयामास मनसि यूनाम् ।
सहावरोधैश्चरतः स्मरस्य, व्यक्तीभवन्ती पदवी किमेषा ॥१६२॥ सुरपद्मदृष्टेवृन्दारकारविन्दलोचनायाः सीमन्तः केशवा स एव दण्डाकृतित्वाद्दण्डः। द्वाभ्यां कृत्वा यदा बध्यन्ते तदा मध्ये केशरहिता दण्डाकृतिर्लक्ष्यते । सैव सीमन्तः 'सई थो' इति लोकप्रसिद्धः। पर स्त्रीणामेव न पुंसाम् । सौराष्ट्रगूर्जरादिषु । पर लाटदेशादिषु श्रूयते । यथा लाटदेशवासिना श्रीहर्षकविना नैषधे समानीतोऽस्ति 'द्विफालबद्धाश्चिकुराः शिरःस्थितम्' इति । द्वाभ्यां फालाभ्यां च संयम्यमाने केशपाशे मध्ये सीमन्तः स्यादेवेति । स देवीसीमन्तो यूनां वयःस्थानां तरुणानां मनांसि सस्मरविकारचेतांसि उन्मादयामास । 'उन्मादश्चित्तविप्लवः' । तद्युक्तानि कृतवानित्यर्थः । उत्प्रेक्ष्यतेअवरोधैरन्तःपुरपुरंधीभिः रतिप्रीतिनाम्न्यौ द्वे पत्न्यौ प्रसिद्ध स्तः, परमन्या अपि भाविन्यः एवमवसीयते कविसमयानुसारेण । यदुक्त नैषधे-'सखीशतानां सरसैविलासैः स्मरावरोधभ्रममावहन्ती । विलोकयामास सभां स भैम्याः' इति । चरतः अत्र देवीशिरसि संचरतः सतः अनङ्गरगाभिधाने शास्त्रे प्रोक्तमस्ति यत्पञ्चदशसु तिथिषु खीणां पञ्चदशसु शिरःप्रभृतिषु स्थानकेषु स्मरः संचरति इति । स्मरस्य कामस्य व्यक्तीभवन्ती प्रकटा जायमाना एषा केशवमलक्षणा पदवी मार्ग इव । यतो घनजलसंचारेण अमार्गो मार्गः स्यादिति प्रत्यक्ष लक्ष्यते ॥
પ્લેકાર્થ
કમલાક્ષી દેવીના કેશસમૂહમાં રહેલો સેંથે યુવાન પુરુષના ચિત્તમાં ઉન્માદ પેદા કરે છે. તે જણે પિતાના અંતઃપુર (રતિ અને પ્રીતિ)ની સાથે સંચરતા કામદેવને જાણે આ પ્રત્યક્ષ માર્ગ नय ! ।। ११२ ॥

Page Navigation
1 ... 607 608 609 610 611 612 613 614