Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah
View full book text
________________
मर्ग ८ श्लो० १५८-१६०] हीरसौभाग्यम् શાથી ? પ્રગટપણે દેખાતા દેવીના કેશરૂપી શરીરવાળા પોતાના શત્રુ રાહુને બાંધીને પિતાના પાછળના ભાગે રાખ્યો ! ૧૫૮ |
अहो महीयान्महिमा सुपर्व-सारङ्गचक्षुश्चिकुरच्छटायाः।
निर्जित्य यस्मात्पशुनापि पश्चा-दचीकरद्या चमरान्प्रतीपान् ॥१५९॥ अहो इत्याश्चर्ये । यथा नैषधे–'अहो अहोभिर्महिमा हिमागमेऽप्यभिप्रपेदे प्रथितां स्मरादिताम्' । सुपर्वसारङ्गचक्षुषः सुरहरिणेक्षणायाः शासनदेव्याः चिकुरच्छटायाः कुन्तलकलापस्य । 'जहास तस्याः कुटिलाः कचच्छटाः' इति नैषधे । छटाशब्देन श्रोणी। 'भटान्तविश्रान्ततुरङ्गमच्छटाः' इत्यपि नैषधे । 'अश्वश्रोणी' इति तद्वत्तिः । महीयानतिशयेन महानतिशायी महिमा माहात्म्य दृश्यते । यस्मात्कारणात् या चिकुरच्छटा प्रतीपान् स्वश्रीप्रतिस्पर्धितया प्रतिकूलीभूतान् चमरान् बालव्यजनानि निर्जित्य निजीजसा पराभूय पशुना तिरश्चापि चमरधेन्वापि का । न किंचिदर्थे पशुशब्दात्तिर्यामात्रे अज्ञानेऽपि । तथा 'पशुस्तिर्यक्' इति हैम्याम् । तथा नैषधे-'पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः' इति । पार्थे पश्चाद्भागे। उपहास्यवाक्यमेतत् । अची करत् कारयति स्म ॥
લોકાઈ મૃગાક્ષી શાસનદેવીના કેશસમૂહને કોઈ અજબ મહિમા છે ! જેથી પોતાના શત્રુ ચામરેને છતીને, પશુ ( ચમરી ગાય ) હોવા છતાં પણ બાંધીને પાછળના ભાગમાં રાખ્યા ! a૧૫
स्पर्धा विधत्ते सुमनःसुकेशी-केशच्छटाभिर्यदसौ कलापः ।
अनौचितीय तमितीव केकी, जहाति कोपादपि पक्षभूतम् ॥१६०॥ केकी मयूरः । उत्प्रेक्ष्यते इति हेतोः पक्षभूतमपि सहायभूतभपि । 'पक्षः सहायः पिच्छच,' तथा 'पक्षो मासाधै पिच्छे च सहाये विरोधे । देहाङ्गे राजकुञ्जरे' इत्यनेकार्थः । कलाप शिखण्डक कोपात्क्रोधातिरेकाजहाति त्यजतीव । इति किम् । यदसो मम शोभाकारी पक्षभूतोऽपि मात्सर्यासूयादिदोषनिर्मुक्तं मनो मानसं यस्यास्तादृश्याः सुकेश्याः। केशलक्षणेन कृत्वा सर्वाण्यप्यङ्गलक्षणानि सचितानि खियाः । तत्त्वतस्त शासननायिकायाः केशच्छटाभिः कुन्तलमालिकाभिः सार्ध स्पर्धा संघर्ष विधत्ते करोति इयमनौचिती न योग्यता । 'सानौचिती चेतसि नश्चकास्तु' इति नैषधे । एतन्नौचित्यमिति कारणात्यागः ॥
બ્લેકાર્થ સુકેશી એવી શાસનદેવીના કેશસમૂહની સાથે આ પીંછાંને સમૂહ ઈર્ષ્યા કરે છે તે અયોગ્ય છે. એમ માનીને મયૂર, પોતાના પક્ષભૂત ( પીંછારૂપ ) હોવા છતાં પણ જાણે રોપથી તેને (पानी) त्याग रत न होय ! ॥ १० ॥

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614