Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah
View full book text
________________
५८२
हीरसौभाग्यम् [सर्ग ८ श्लो० १५६-१५८
શ્લેકાર્થ દેવીના મુખની લક્ષ્મીથી પરાભવ પામેલું કમલ, પિતાના મિત્ર સૂર્યના ઉસંગમાં આવીને, સૂર્યની પાસે ભ્રમરોના ગુંજારવના બહાને જાણે પોતાના પરાભવજન્ય દુઃખનું નિવેદન કરતું ન હોય ! એ ૧૫૬ છે
वक्त्रं त्रिदश्या विजितात्मदर्श-निशामणि प्रेक्ष्य हिरण्यगर्भः ।
सृष्टिं सिसक्षुः किमदोनुरूपां, विनिर्मि मीतेऽम्बुजहस्तलेखम् ॥१५७॥ हिरण्यगो ब्रह्मा अम्बुजैः सकलकमलकलापैः कृत्वा हस्तलेखम् ‘हस्तोलक' इति प्रसिद्धम् । विनिर्मिमीते कुरुते । उत्प्रेक्ष्यते-अदोनुरूपाम् अस्या गीर्वाणगृहिणीवनारविन्दसदृशीम् । 'अदःसमित्संमुखवैरियौवतत्रुटभुजा कम्बुमृणालहारिणी' इति नैषधे समासान्तोऽदसूशब्दः । सृष्टि रचनां सिसृचः स्रष्टुमिच्छुः कर्तु काङ्क्षनिष । किं कृत्वा । विजिताः स्ववैभवाभिभूता आत्मदर्शा दर्पणा निशामणयश्चन्द्रमसो येन तादृश त्रिदश्याः शासनसुररमण्या वक्त्रं वदन प्रेक्ष्य दृष्ट्वा । वक्त्रशब्दः पुनपुंसकलिङ्गयोः । 'नेत्र वक्त्रपवित्रपत्रसमरोशीरान्धकारावरः' इति लिङ्गानुशासने ॥
કલેકાર્થ પોતાની શોભાથી દર્પણ અને ચંદ્રની શોભા જીતી લેનાર દેવીના મુખકમલને જોઈને, દેવીના મુખમલની સમાન સૃષ્ટિની રચના કરવા માટે ઇચ્છતા બ્રહ્માએ સમસ્ત કમલે બનાવીને જાણે (2) હથેટી કરી ન હોય ! ૧૫૭
मन्ये कुमुगन्धुरिदमृगाङ्क-मुखीमुखीभूय सुखी बभूव ।
नियन्त्र्य यत्तेन तमः स्वदस्युः, प्राक्षेपि पृष्ठे स्फुटकेशकायः ॥१५८॥ अहं ग्रन्थकृदेवममुना प्रकारेण मन्ये विचारयामि । यत्कुमुदन्धुः कैरवसुहृश्चन्द्रमाः इदंमृगाकमुखीमुखीभूय इय चासौ मृगाकमुखी च कौमुदीदयितवदना च तस्या मुखीभूय वदनभाव प्रतिपद्य । 'इदं नृपप्रार्थिभिरुज्झितोऽथिभिः' इति नैषधे । अत्रेदशब्दः समासान्तः । सुखी बभूव सातवान् निश्चिन्तो वा संजातः । यद्यस्मात्कारणात् स्फुटः प्रकटो दृश्यमानत्वात्केशा एव देवीशिरश्चिकुरा एक कायो देहो यस्य तादृशः । स्वदस्युनिजप्रत्पनीकस्तमोविधुतुदः नियन्त्र्य बध्या पृष्ठे स्वपृष्ठप्रदेशे प्राक्षेपि प्रक्षिप्तः। धम्मि लस्य विधुतुदोपमानत्वं काव्यकल्पलतायाम् । 'धम्मिल्लः संयताः केशाः' इति हेभ्याम् । एतदेव महत्सुखम् । यत्स्वद्विषन्नभिभूय नियन्त्र्य रक्ष्यते ॥ इति देवीवदनम् ॥
શ્લોકાઈ હું માનું છું કે ચંદ્ર, ચંદ્રમુખી દેવીના મુખરૂપે થઈને સુખી થયો ! અર્થાત નિશ્ચિત બન્ય

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614