Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

View full book text
Previous | Next

Page 605
________________ ५८० हीरसौभाग्यम् [सर्ग ८ श्लो० १५२-१५४ रीसंबन्धि भाल ललाट हेम्नः काञ्चनस्य फलक 'पाटिउ' इति प्रसिद्ध व्यधत्त विदधाति स्म चकार । किंभूतस्य झषध्वजस्य । पराक्रमेण स्वपुरुषाकारेण निजभुजवीर्येण कृत्वा त्रैलोक्य तात्स्थ्यात्तद्वयपदेशात्सुरलोकपातालभूमीलोकवासिनः सुरासुरनागनागरनिकरानाक्रम्य पराभूय स्वाकवशंवदीकृत्य सुखं सातेन निषण्णस्योपविष्टस्य आसीनस्य ॥ કલેકાર્થ પોતાના બાહુબળથી ત્રણે જગતને જીતીને સુખપૂર્વક બેઠેલા કામદેવના અવછંભ (ટકા) માટે જાણે બ્રહ્માએ દેવીના લલાટરૂપ સુવર્ણનું પાટીયું બનાવ્યું ન હોય! ૧૫રા अधृष्यमन्विष्य यदीयभाल, निज प्रति स्पर्धितया जिगीषत् । अर्धामृतांशुः प्रपलाय्य पूष-द्विषो जटाजूट इव प्रविष्टः ॥१५३।। अर्धामृतांशुः सामिसोमः प्रपलाय्य भयात्प्रणश्य । उत्प्रेक्ष्यते-पूषद्विषः पूषनाम्नो दानवेन्द्रस्य व्यापादकस्य शंभोजटाजूटे विकटकपर्दे प्रविष्ट इव निलीय तस्थिवानिव । किं कृत्वा । स्पर्धितया स्पर्धनशीलत्वेन निजमात्मानम् । निजशब्देन क्वाप्यात्माप्यु. च्यते । यथा नैषधे-'श्रुत्वा निज भीमजया निरस्तम्' इति । जिगीषत् जेतुमिच्छत्पराभवितु महिमान तादृश तदीयभाल देवललनाललाटमेवाधृष्य मनाक कलनीयम् कथमप्यभिभवितुमशक्यं द्वेष्य वैरिणमन्विष्य निरीक्ष्य ॥ કલોકાર્થ કોઈનાથી પણ જીતી ના શકાય તેવા પ્રકારના પોતાના પ્રતિસ્પર્ધારૂપ દેવીના લલાટને જોઈને ઈર્ષાથી તેને જીતવાને ઇચ્છતો અર્ધચંદ્ર, તેથી જ નાસીને શંકરની જટામાં પેસી ગયો ન હોય ! ૧૫૩ છે अद्वैतलक्ष्मीकमवेक्ष्य यस्या, भालं तदीयश्रियमीहमानः । विश्व भरस्येव पदे लगित्वा, तां मार्ग प्रत्यर्भ इवार्धचन्द्रः ॥१५४॥ - अर्धचन्द्रः अष्टमीतमीप्रियतमः विश्व भुवनमभीप्सितप्रदानेन पुष्णाति पुष्टं कुरुते । 'दुभृञ् धारणषोषणयोः' अस्य धातोः प्रयोगः । विमतिं रक्षति प्रत्यूइव्यूहापहरणेन वा इति विश्वभरः कृष्णः तस्य पदे चरणे विष्णुपदे लगित्वा विलग्य समाश्लिष्य । उत्प्रेक्ष्यतेतां विबुधवधूललाटलक्ष्मी मार्गयतीव याचतीव । 'अर्दति मार्गति मार्गयति याचति याचतेऽर्थनार्थाः स्युः' इति क्रियाकलापे । क इव । अर्भ इव । यथा बालकः पितुः पद विलग्य याचते । किं कुर्वाणः । तदीयां सुधाशनवधूगोघिसंवन्धिनीं श्रियं लक्ष्मीमीहमानः कासन् । किं कृत्वा । यस्याः शासनसुमनःसुन्दर्या अद्वैत न विद्यते द्वैत युगलमेतत्सदृशमपर वस्तु यस्याः सा तादृशो लक्ष्मीः सुषमा यस्य । स्वार्थे कः । अद्वैतलक्ष्मीकमसाधारणवैभव भालमलीकमवेक्ष्य व्यालोक्य ॥

Loading...

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614