Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

View full book text
Previous | Next

Page 604
________________ मर्ग ८ श्लो० १५०-१५२] हीरसौभाग्यम् ५७९ संस्पर्षिमावं दधता स्वलक्ष्म्या, खण्डेन पण्डेतरकान्तिमेव । जग्राह योद्धु त्रिदशीललाट, भ्रूयुग्मकायां करवालयष्टिम् ॥ १५ ॥ त्रिदशीललाट शासनवृन्दारकसुन्दर्या भाल युग्म ध्रुवोर्यामलमेव काय शरीर यस्यास्तादृशीं करवालयष्टि निकषोल्लिखितनिशितनिस्त्रिंशलतां जग्राह गृहयांबभूव । उत्प्रेक्ष्यते-स्वलक्ष्म्या आत्मीयश्रिया सम संस्पर्धिभाव स्ववैभवोत्सेकितया स्पर्धनशीलतां दधता विधाणेन खण्डेनाधैन । 'खण्डेऽर्धशकल भित्तम्' इति हैम्याम् । चण्डात्तीक्ष्णादितरा अपरा एतावता अनुष्णा शीता कान्तिः दीप्तिर्यस्य तादृशेन चन्द्रेण सुधादीधितिना एतावताष्टमीतमीरमणेन सम सार्ध योर्बु संग्राम विधातुमिव । 'खड्गा यत्ताखिला पृथ्वी' इति वचनात् ॥ इति भ्रयुगलम् ॥ શ્લોકાર્થ પિતાના વૈભવ સાથે ઈષ્યભાવ ધારણ કરતા અર્ધચંદ્ર-અષ્ટમીના ચંદ્રની સાથે યુદ્ધ કરવા માટે દેવીના લલાટે ભૃકુટી-યુગલરૂપી તીક્ષ્ણ ખડૂગલતા તલવાર જાણે ગ્રહણ કરી ન હોય ! ૧૫માં स्मरं रतिप्रीतिनितम्बिनीभ्यां, सहाभिषेक्तुं भुवनाधिपत्ये । यद्भालदम्माजलजासनेन, मन्ये प्रणिन्ये कलधौतपः ॥१५॥ रतिप्रीतिनाम्नीभ्यां द्वाभ्यां नितम्बिनीभ्यां गृहिणीभ्याम् । 'रतिप्रीती इव स्मरः' इति प्रतिक्रमणसूत्रवृत्तौ। ततो मदनस्य एका रतिः अपरा च प्रीतिः एते द्वे पत्न्यौ ताभ्यां सार्थ राज्ञामभिषेकसमये राक्षीनामप्यभिषेको दृश्यते । यथा 'कृताभिषेका महिषी' इति हैम्याम् । स्मर काम भुवनाधिपत्ये त्रैलोक्यराज्ये अभिषेक्तुमभिषेक विधातुम् अहमेव मन्ये जानामि । उत्प्रेक्षे वा । जलजासनेन कमलविष्टरेण ब्रह्मणा यस्या देव्या भालस्य ललाटस्य दम्भात्कलधौतस्य काञ्चनस्य पट्टः पट्टकः प्रणिन्ये विनिर्मित इव ॥ પ્લેકાર્થ હું માનું છું કે રતિ અને પ્રીતિ એ બે પત્નીઓ સહિત કામદેવને, ત્રણે જગતના અધિપતિ તરીકેને રાજ્યાભિષેક કરવા માટે, જાણે બ્રહ્માએ દેવીના લલાટપટ્ટના બહાને સુવર્ણ પદ્ધક (21) मनाव्यो न होय ! ॥१५॥ त्रैलोक्यमाक्रम्य पराक्रमेण, सुख निषण्णस्य अषध्वजस्य । व्यधत्त हेम्नः फलक विधाता-वष्टम्भनायेव तदीयमालम् ॥१५२॥ विधाता ब्रह्मा । झषो मीनो ध्वजः वेतन चिह्न वा यस्य स मत्स्यलाञ्छनो मदनः अर्थान्मन्मथपृथ्वीपतिस्तस्यावष्टम्भनाय पृष्ठप्रदानार्थम् । उत्प्रेक्ष्यते तदीयं शासनसु.

Loading...

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614