Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

View full book text
Previous | Next

Page 602
________________ ५७७ मर्ग ८ श्लो० १४५-१४७] हीरसौभाग्यम् । अभ्यस्यतास्याः श्रवसी मनोभू-धनुर्धरेणेव धृते शरव्ये । न चेद् भवेतां कथमन्तरालेऽ-नयोविनीले कमले कलम्बौ ।। १४५ ॥ अभ्यस्यता त्रिजगज्जयकृते शराभ्यास कुर्वता मनोभूर्मदनो नाम धनुर्धरो धानु. कस्तेन अस्यास्त्रिदश्याः श्रवसी श्रवणावेव । उत्प्रेक्ष्यते--शरव्ये वेध्ये धृते मण्डिते इव । एवं चेन्न तर्हि अनयोः श्रवःशरव्ययोः अन्तराले मध्ये विनीले नीलवर्णे कमले एतावता नीलोत्पले एव कलम्बी बाणौ । 'रोपाः कलम्बशरमार्गणचित्रपुडाः' इति हैम्याम् । कथं केन कारणेन भवेताम् । किं च कुण्डले नीलोत्पले च नैषधे दमयन्तीपरिणयनशृङ्गाराधिकारे दृश्येते । यथा-'अवादि भैमी परिधाप्य कुण्डले वयस्य याभ्यामभितः समन्वयः' । तथा-'धृतं च तं सोत्पलयुग्ममेतया व्यराजदस्यां पतिते दृशाविव' । इत्यपि तत्रैव इद द्वितयमप्यानीतमस्ति । किं चैव ज्ञायते यत्कर्णकुण्डलमध्ये एव नीलोत्पले भविष्यतः ॥ कर्णयोरुत्पले ॥ साअर्थ ત્રણે જગતને જ્ય કરવા માટે બાણને અભ્યાસ કરતા કામદેવરૂપી ધનુર્ધરે દેવીના કર્ણદ્યરૂપ વષ્ય (લક્ષ્ય)ને ધારણ કર્યું. જે એમ ન હોય તો બે કાનની મધ્યમાં નીલકમલરૂપ બાણો કઈ રીતે હોઈ શકે ? ૧૪૫ . कटाक्षबाणान्प्रगुणान्प्रणीय, स्वःसुभ्रूवो भ्रः कुटिलीभवन्ती । धनुर्लता श्रीसुतधन्विनेव, प्रसाधिताभात् त्रिजगज्जयाय ॥ १४६॥ कुटिलीभवन्ती वक्रभाव भजन्ती स्वःसुभ्रवो देव्या भ्रूरूचे रोमपद्धतिरभाद्बभौ । उत्प्रेक्ष्यते-श्रीसुतधन्विना मदनधानुष्केण त्रिजगतस्त्रिभुवनस्य जयाय पराभवनाय वशी. करणाय वा प्रसाधिता प्रगुणीकृता धनुर्लतेव कोदण्डयष्टिरिव । किं कृत्वा । कटाक्षानक्षिविकूणितानि नेत्रत्रिभागावलोकितानि एव बाणाः शरास्तान् प्रगुणान् सजान् प्रणीय विधाय ॥ શ્લોકાર્થ દેવીની વક્ર ભ્રમરે શોભે છે. તે જાણે ત્રણે જગતને પરાભવ કરવા માટે ધનુર્ધારી કામદેવે કટાક્ષરૂપી બાણે સજજ કરીને, ધનુલતા તૈયાર કરી ન હોય ! . ૧૪૬ उज्जम्भवत्राम्बुजमन्दिराया, लीलाप्रवालोऽयमिवेन्दिरायाः । उप्ता तया वा फलिनीव भाला-जिरे विरेजे सुरसुध्रुवो भ्रूः ॥१४७ ॥ सुरसुभ्रवः सुपर्वप्रमदायाः भ्रविरेजे भाति स्म । उत्प्रेक्ष्यते-उज्जम्भ विकसित यद्वक्त्र देवीवदनं तदेवाम्बुज जलरुह कमलं तत्र मन्दिर सदन यस्यास्तादृश्या इन्दि

Loading...

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614