Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah
View full book text
________________
५७६
हीरसौभाग्यम् [सर्ग ८ श्लो० १४२-१४४ નવાંકયુગ્મ-અઢારદીપ-પૃથ્વીની સમગ્ર મહિલાઓનો પરાભવ કરાયેલ છે, ” આવી જગતમાં જાહેરાત કરવા માટે નવાંકયુગ્મ ધારણ કરાયું ન હોય ! ! ૧૪૨ છે
स्वपृष्ठलग्नागतकेशकाय-स्वर्भाणुमालोक्य जिनाधिदेव्याः ।
त्रायस्व नौ वक्तुमितीन्दुभान्, श्रुत्योर्विलग्नाविव कुण्डलाङ्गौ ॥१४३॥ स्वयोः सूर्याचन्द्रमसात्मनोः पृष्ठे पश्चात्प्रदेशे लग्न एवामतः पृष्ठश्लिष्ट एव समुपेतः तादृक् । तथा केशा देवीचिकुरा एव कुन्तलरूप एव कायः शरीरं यस्य श्यामवर्णत्वास्वर्भाणुविधुतुदस्त, आलोक्य वैरित्वात्समय विभाव्य । कुण्डले कर्णवेष्टिके एव अङ्ग देहो ययोस्तादृशौ इन्दुभानू चन्द्रसूर्यो । जयति पराभवति बाह्याबाह्यशनिति जिनः त्रिभुवनाधिनाथस्तस्याधिदेवी अधिष्ठात्री देवता तादृक्स्वामिसेवकतया तस्या अप्यचिन्त्यसामर्थ्यात् । श्रुत्योः श्रवणयोः । उत्प्रेक्ष्यते-इत्येतद्वक्ष्यमाण वक्तुं कथयितुमिव विलग्नौ लगित्वा स्थितौ । अन्यावपि किंचिस्वकृत्यं कथयितुकामौ स्वामिश्रवणयोविलगतः । इति किम् । हे त्रैलोक्याधीशाधिदेवते प्रबलपराक्रमे, त्वं नौ आवयोः प्रचण्डविधुतुददैत्यादस्मजिघांसोः सकाशात्त्रायस्व रक्षाजीवितप्रदानेन पालय ॥ इति कर्णकुण्डले ॥
શ્લેકાર્થ કેશરૂપે શરીરવાળા પોતાની પાછળ પડેલા રાહુને જોઇને સૂર્ય અને ચંદ્ર શાસનદેવીના કાને. માં કંડલરૂપે રડ્યા. શા માટે ? હે ત્રિલેકેશ્વરી “હે પ્રબલપરાક્રમી, આ પ્રચંડ રાહુથી તું અમારા બંનેનું રક્ષણ કર, આ પ્રમાણે કહેવા માટે કુલરૂપે રહયા ન હોય ? ૧૪૩ |
नीलोत्पले कर्णयुगे चकासां-बभूवतुः स्त्रणमणेः सुराणाम् ।
युयुत्सुनी तन्नयनोत्पलाभ्या-मिव प्रतिस्पर्धितयाभ्युपेते ॥ १४४ ॥ सुराणां निर्जराणां स्त्रीणां समूहः स्त्रैण स्त्रीसमूहापेक्षया सुराणामित्यत्र बहुवचन तस्य तस्मिन्वा मणे रत्नभूतायाः कर्णयुगे कर्णयुगले नीलोत्पले इन्दीवरे । 'नीले तु स्यादिन्दीवरम्' इति हैम्याम् । चकासांबभूवतुः भातः स्म । उत्प्रेक्ष्यते-तस्याखिदश्या नयने विलोचने एवोत्पले कुक्लये ताभ्यां सम साधं प्रतिस्पर्धितया परस्पराद्वेतवैभवा. तिरेकोद्भताभ्यसूयया कृत्वा युयुत्सुनी योद्धकामे इवाभ्युपेते संमुख समेते । अपरोऽपि संस्पर्धोदयानिजसपत्नोपरि योद्धमायाति ॥
કા દેવાંગનાઓના સમૂહમાં શિરોમણી શાસનદેવીનાં કર્ણ–યુગલ નીલકમલરૂપે રહયાં છે. તે જાણે શાસનદેવીના નયનકમલની સાથે પરસ્પર સ્પર્ધા (ઈષ્ય)થી યુદ્ધ કરવાની ઈચ્છાથી નીલકમલા સામ સામે આવીને રહયાં ન હોય ! છે ૧૪૪ .

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614