Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah
View full book text
________________
५७४
हीरसौभाग्यम् [सर्ग ८ श्लो० १३८-१४० यस्यां तादृशीम् । एतदीयामेतस्या इमां त्रिदश्या देव्या इमां दृष्टिमनुकुर्यात् सदृशीभवेत् । अनुकार विध्यादित्यर्थः ॥ इति लोचनम् ॥
નિરંતર મધુપાનના લુપી ભ્રમરોથી-યુકત ત કમલ, કોઈ દેવના પ્રભાવથી દિવસ અને રાત્રિમાં જો નિરંતર વિકાસશીલ બને તે મધ્યમાં ચપલ કીકીવાળી દેવીની દષ્ટિનું અનુકરણ रीश! ॥ १3८ !!
प्रीत्या च रत्या सह मीनकेतो-रन्दोलनादोहदपूरणाय । विनिर्मिते नाभिभुवेव लीला-दोले तदीये श्रवसी विभातः ॥ १३९ ॥
दादपुरणाय ।
तदीये देवीसंबन्धिनी श्रवसी कौँ विभातः शोमेते । उत्प्रेक्ष्यते-नाभिभुवा पद्मजन्मना लोलादोले केलिप्रेडोले विनिर्मिते स्वयं कृते इव । कस्मै । प्रीत्या च पुनः रत्या प्रीतिरतिनाम्न्यौ द्वे स्मरपत्न्यौ ताभ्यां स्त्रीभ्यां सम सह मीनकेतोर्मकरध्वजस्य दोलाभ्यां प्रेडोलनाभ्यां यान्दोलना तस्या यो दोहदो वाञ्छा अभिलाषस्तस्य पूरणाय संपादनाय परिपूर्तये । 'दोलान्दोलनदोहदोऽपि च चलद्वीचीचयैः पूर्यते' इति हंसाष्टके ॥
શ્લેકાર્થ શાસનદેવીના કાન શોભે છે. રતિ અને પ્રીતિ બે પત્નીઓ સાથે કામદેવની ખૂલવાની ઈચ્છા પૂર્ણ કરવા માટે જાણે સ્વયં બ્રહ્માએ દેવીના બે કાનરૂપ બે હિંડલા બનાવ્યા ન હાય ! | ૧૩૯
मोघीकृताशेषशरं गिरीश, प्रत्यर्थिन पाशयितु कथंचित् । अधारि पाशो विषमायुधेन, यद्वेश्मनेव श्रवणच्छलेन ॥ १४० ॥
यद्वेश्मना या शासनदेव्येव वेश्म वासमन्दिर यस्य तादृशेन विषमायुधेन विषमाप्येकीभावभाजि । एकत्रिपञ्चसप्तसंख्यावन्ति विषमाण्युच्यन्ते । 'लक्ष्मैतत्सप्त गणा गो. पेता भवति नेह विषमे जः।' आर्याया एतल्लक्षणम् । अष्टमस्थाने गुर्वक्षरयुताश्चतुर्मात्रिकाः सप्त गणा भवन्ति । 'इहार्यायां विषमे एकत्रिपञ्चसप्तस्थाने जगणो न भवति' इति वृत्तरत्नाकरे । तथा समानि तु द्विचतुःषडष्टादीनि तेनात्रार्थाद्विषमाणि पञ्चसंख्याकानि आयुधानि अर्थाद्वाणा यस्य । विषमाणि दुर्धराण्यसह्यानि वा शस्त्राणि यस्य । 'विषमायुधो दर्पकः कामहृच्छया' इति हैम्याम् । स तेन स्मरेण श्रवणच्छलेन कर्णक पटेन । उत्प्रेक्ष्यते-पाश इवाधारि बन्धनग्रन्थिरिव धृतः। किं कर्तुम् । मोघीकृता व्यर्था विहितास्तृणप्रायाः प्रणीता अशेषाः समस्ताः शरा अर्थान्मन्मथमार्गणा येन तादृश गिरीश शंकर प्रत्यर्थिन स्वशत्रु कथंचित्केनापि प्रकारेण कृत्वा पाशयितु पाशसास्कर्तुं पाशेन बद्धं पाशे पातित वा कर्तुम् ॥

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614