Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

View full book text
Previous | Next

Page 597
________________ हीरसौभाग्यम् [सर्ग ८ श्लो० १३४-१३६ मम्बुजानि कमलकुवलयकुमुदादीनि सलिलजन्मानि तथा खजरीटान् खञ्जनान् लोके 'गङ्गेटिया' इति प्रसिद्धानकार्षीत्करोति स्म । किं कृत्वा । प्रणीय निर्माय । कैः। कर्मतापन्नैः । उत्प्रेक्ष्यते-सारैः सर्वविशिष्टभूतैः अशेषद्वेषिसंताननिर्जित्वरैर्दलेरद्वैतद्रव्यैः शासनदेवताया जिनमताधिष्ठायिकायास्त्रिदश्याः किमु नेत्रे कर्णान्तायतलोचने इव कृत्वा ॥ શ્લેકાર્થ બ્રહ્માએ સારભૂત શ્રેષ્ઠ દ્રવ્યોથી શાસનદેવીનાં નેત્રો બનાવીને, બચેલાં સમસ્ત લેવડે જાણે ચકે, કમલે અને ખંજરી (ગંગેટીયા-પક્ષીવિશેષ)ને બનાવ્યાં ન હોય ! ! ૧૩૪ जेया त्रिलोक्येव शरैत्रिभिस्त-च्छेषा द्विकाण्डी किमिति स्मरेण । त्यक्ताथ सा पद्मभुवा कृतार्थी-कृतेव देव्या नयने प्रणीय ॥ १३५ ।। __ अथ पश्चान्मदनधनुर्धरेण त्यजनानन्तर सा कृत्यवन्धत्वेन क्षिप्ता त्यक्ता द्विबाणी इयोर्वाणयोः समाहार इति पद्मभुवा पङ्कजजन्मना विधिना देव्याः शासनदेवताया नयने विलोचने प्रणीय विधाय कृतार्थीकृता सफला विहितेव । सा का । या द्वयोः काण्डयोः समाहारो द्विकाण्डी द्विशरी । 'बाणे पृषक्तविशिखौ खगगर्धपक्षाकाण्डाशुगप्र. दरसायकपत्रवाहाः' इति हैम्याम् । बाणद्वयमित्यर्थः । इति हेतोः स्मरेण विषमायुधधानुष्केण त्यक्ता उज्झिता । इति किम् । त्रयाणां स्वर्गपातालभूमण्डललक्षणानां लोकानां. समाहारखिलोको एव त्रिभुवनमेव जेया पराभवनविषयीकरणीया । नापरा मम जेतु योग्या त्रिलोकी । सा तु त्रिलोकी त्रिभिरेव पत्त्रिभिर्मया जेष्यते तहिं शेषा पञ्चसु शरेष्ववशिष्टा द्विवाणी किमिति किं कार्यार्थ केवल भारभूतेव । न किंचित्कृत्यकृते तेनोज्झिता ॥ શ્લેકાર્થ ત્રણ બાણોથી ત્રણ લેક જીતી શકાશે તે બાકીનાં બે બાણે નિરર્થક છે અર્થાત ભારભૂત છે,' એમ માનીને બાણાવળી કામદેવે ત્યાગ કરેલાં બે બાણને બ્રહ્માએ દેવીનાં નેત્રો બનાવીને सण ४ा ! ॥ १३५ ॥ श्रिया सुधाभाकपरमाणुमध्या-चक्षुर्विभूषामनुकतुकामैः । गुप्त कचित्प्रावृषि खञ्जरीटै-राराध्यते मन्त्र इवाप्तदत्तः ॥ १३६ ॥ खञ्जरीटैः खञ्जनपक्षिभिः प्रावृषि वर्षाकाले क्वचित्कुत्रापि जनदृग्गोचरे स्थाने गुप्तमत. एव यथा कश्चिन्न वेत्ति तथा छन्नं यथा स्यात्तथा । उत्प्रेक्ष्यते-आप्तेन विश्वासप्राप्तेन केनचित् हितकृता सिद्धेन वा केनचन दत्तोऽतिप्रसन्नीभूत्वा विश्राणितो

Loading...

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614