Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah
View full book text
________________
५७८
भाग्यम्
[ सर्ग ८० १४७ - १४९
या लक्ष्याः अयं प्रत्यक्षलक्ष्यो लीलायै विलासार्थं प्रवालः तमालसालपल्लवः इव । वाथवा तया श्रिया भालाजिरे ललाटप्राङ्गणे उप्ता प्ररोपिता फलिनी प्रियङ्गुलतेव । 'प्रियगुः फलिनी श्यामा' इति हैम्याम् ॥
શ્લેાકા
દેવીની ભ્રમર શાભે છે. તે જાણે દેવીના વિકરવર મુખકમલરૂપ થાનવાળા લક્ષ્મીદેવીના ક્રીડા કરવા માટે આ તમાલ વૃક્ષને પલ્લવ ન હોય ! અથવા લક્ષ્મીએ લલાટરૂપી આંગણામાં રાપેલી इसिनी ( सनाविशेष ) लागेन होय ! ॥ १४७ ॥
मिथो मुनीन्द्रेण मृधे मनोभू-भूमीपतिर्जर्जरिताङ्गयष्टिः । सुपर्वसुभ्रुवमाश्मगर्भ-यष्टीमिवालम्बकृते ततान ॥ १४८ ॥
मनोभूभूमीपतिश्चेतोभववसुधाधिनाथः मदननृपः आलम्बकृते स्यस्यैवावलम्बनार्थमाधारविधानोपयोगार्थम् । उत्प्रेक्ष्यते - सुपर्वसुभ्रुवः सुराङ्गनायाः भ्रुवमेवाश्मगर्भयष्टीं मरकतमणिमयदण्डम् | 'मरकत' त्वश्मगर्भः' इति हैम्याम् । ततान कृतवानिव । किंभूतः । मिथः परस्परं मृधे संग्रामे मुनीन्द्रेण हीरविजयसूरिणा जर्जरिता प्रहारैर्ज - जरीकृता अङ्गयष्टिः शरीर ं यस्य । जर्जरः पुमान् स्वशरीराधारकृते हस्ते यष्टिं गृह्णाति । किं चापवर्णनादिराभस्याद्ग्रन्थकृतामावर्णनीयनायको विस्मृतः स्यादिति तदन्तर्देवीवनान्तराले मुनीन्द्रपदोपादानम् । यथा नैषधेऽपि कुण्डिनपुरवर्णनाधिकारे - ' पयसा 'नैषधशीलशीतलम्' इति तद्वृत्तावप्येतदेवोक्तमस्ति ॥
શ્લેાકા
પરસ્પરના સંગ્રામમાં શ્રીહીરવિજયસૂરીએ કરેલા તીક્ષ્ણ પ્રહારાથી જરિત થયેલા કામદેવે, પેાતાના આલંબન માટે દેવીની ભ્રમરરૂપી મરકતમણિની યષ્ટી (લાકડી) બનાવી ન હોય ! ૫૧૪૮ાા
नीलारविन्देन पुरा प्रणीय, दृशं त्रिदश्याः सरसीजजन्मा । किञ्जल्कवृन्दैर्वदने तदीयैः, प्रणीतवान् अलतिकामिवास्याः || १४९ ||
सरसीजजन्मा पद्मनन्दनः विधाता अस्याः शासनदेवताया वदने मुखे तदीयैर्नीलारविन्दसंबन्धिभिः किंजल्कवृन्दैः केसरनिकरैः कृत्वा । उत्प्रेक्ष्यते— भूलतिकां लोचनोर्ध्वरोमपद्धतिवल्लीं प्रणीतवान् कृतवानिव । 'प्रणीतवाऽशैशवशेषवानयं जगज्जयं तेन च कोशमक्षयम्' इति नैषधे । किं कृत्वा । पुरा प्रथम' नीलारविन्देनाविनिद्रदिन्दीवरेण त्रिदश्या बहिर्मुखयोषितः दृशं विलोचन प्रणीय स्वयं विनिर्माय ||
શ્લાકા
બ્રહ્માએ પૂર્વે નીલકમલવડે દેવીના નેત્રો બનાવીને પછી તે નીલકમલની કેશરાએથી જાણે દેવીની ભ્રમરા બનાવી ન હોય ! ! ૧૪૯ ।।

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614