Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

View full book text
Previous | Next

Page 591
________________ हीरसौभाग्यम् [सर्ग ८ श्लो० १२१-१२२ तत्साधु मन्ये मलयानिलेन, यदेतदीयस्वश्वि] सितीबभूवे । सर्वतुपुष्पोद्भवसौरभस्य, सौभाग्यमाप्नोति किमन्यथासौ ॥ १२१ ॥ तत्साधु मन्ये अह कविस्तत्साधु समीचीन मन्ये हृदि मानयामि वेनि यन्मलया. निलेन मलयामपरिमलसुरभीकृतमलयशैलप्रसरत्पवनेन दाक्षिणात्यवायुना पतस्या इदमेतदीय देवतासंबन्धि यत्स्व[श्व]सित श्वासः तद्वभूवे जातम् । श्वासस्तु श्वसितम्' इति हैम्याम् । देवीश्वासरूपेण संजज्ञे अन्यथा तद्भवनव्यतिरेकेण असो मलयानिलः सर्वे वा ते ऋतवश्च सर्वर्तवः हिम-शिशिर वसन्त--ग्रीष्म-वर्षा-शरल्लक्षणाः षडपि ऋतवः समयविशेषास्तेषां पुष्पाणि कुसुमानि तेभ्यः उद्भवेभ्य उद्भव उत्पत्तिर्यस्य तादृश यत्सौरभ सुरभिता आमोदो वा तस्य सौभाग्य सुभगतां माहात्म्यं वा किं कथं केन प्रकारे णाप्नोति लभते । अपि तु न केनापीति । यतो मलयानिलो वसन्तर्तावेव नान्यर्तुषु ततो वसन्तती एव कुसुमसौरभ लभते । एतद्वदनश्वासानिलस्य तु सर्वतुकपुष्पपरिमललम्भः तस्मात्साधिमैव मलयवायोः संजातः ॥ પ્લેકાર્થ હું માનું છું તે યુક્તિયુકત જ છે ! શું ? મલયાચલને સુગંધી અને શીતલ પવન દેવીના શ્વાસરૂપે બની ગયા છે ! જે એમ ના હોય તો મલયપવન, હેમંત, શિશિર, વસંત, ગ્રીષ્મ, વર્ષા અને શરદ આ છ ઋતુનાં પુષ્પોથી પ્રગટ થયેલી સુવાસનું સૌભાગ્ય કેવી રીતે પ્રાપ્ત કરી શકે ? ૧૨૧ | निमीलनोन्मीलनदूषितेभ्यो, नित्यं दधद्भ्यो मधुपानुषङ्गम् । निर्वेदवान् पद्मकुमुदनेभ्यः, स्थितः किमामोद इदंमुखाब्जे ॥ १२२ ॥ पाकुमुदनेभ्यः कमलकैरवकाननेभ्यः सकाशानिर्वेदवान् खेदमेदस्विमनःकलितः प्राप्तोद्वेगः । उत्प्रेक्ष्यते-आमोदः परिमलः इदंमुखाब्जे शासनसुरीवकतारविन्दे किं स्थितः समेत्य स्वयं वसतीव । किंभूतेभ्यः पद्मकुमुद्वनेभ्यः। निमीलन संकोचः, उन्मीलन विकाशः । निशायां पद्म निमीलति कैरवमुन्मीलति दिने पद्ममुन्मीलति कुमुदं निमीलति । आभ्यां क्रमासंपद्विपद्भ्यां दूषितेभ्यः विकार प्रापितेभ्यः । पीडि. तेभ्य इत्यर्थः । पुनः किंभूतेभ्यः । नित्य निरन्तरं मधुर्मद्यपायिभिर्भ मरैर्वा अनुषङ्गो मिलन संगम दधद्भ्यो धारयद्भ्यः कुर्वद्भ्यः इत्यर्थः ॥ શ્લેકાર્થ સંકેચ અને વિકાસ ! રાત્રિમાં પદ્મને સંકેચ અને કરવ-કુમુદને વિકાસ! દિવસે પદ્મને વિકાસ અને કરવાનો સંકોચ ! આ પ્રમાણે સંકોચ અને વિકાસશીલ તથા નિરંતર મધુ-લેલુપી ભ્રમરોને જેને સંગ છે તેવાં કમલ અને કૈરવનાં વનથી નિર્વેદ પામેલ પરિમલ ( સુગંધી ) દેવીના મુખરૂપી કમલમાં આવીને વસ્યો ન હોય ! ! ૧રર છે

Loading...

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614