Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

View full book text
Previous | Next

Page 587
________________ ५६२ [ सर्ग ८ श्लो० ११३ - ११५ सौभाग्यम् स्वं निष्ठितं नित्यसुपर्वपानाद, पीयूषमन्विष्य सितत्विषेव । त्रैषीदमानाययितुं रसज्ञा-सुधादोऽस्या द्विजराजिराभात् ॥ ११३ ॥ अस्या देवताया द्विजराजिर्दन्तपक्तिराभाद्वभौ । उत्प्रेक्ष्यते - सितत्विषा चन्द्रमसा इदं पीयूषमानाययितुमात्मार्थे आनयनार्थमस्या देव्या रसज्ञा जिह्वा सैव सुधाया अमृतरसस्य हृदो द्रहस्तत्र द्विजराजिस्तदधिपतित्वात्स्वभृत्यवर्गीभूता द्विजपक्तिर्दशनावलीरूपा ब्राह्मणमण्डली प्रैषि प्रहितेव । किं कृत्वा । नित्यमहोरात्र सुपर्वणां देवानां सुधाशनत्वात्पानात्पानवशतः निष्ठितं क्षीण स्वल्पावशिष्टं वा पीयूष सुधारसमन्विष्य समीक्ष्य ॥ શ્લાકા દેવીની દતપતિ રાજે છે. દિન-રાત દેવાએ પાન કરવાથી સુધા ખલાસ થઇ ગયેલી જોઇને ચન્દ્રે દેવીની જારૂપ સુધાકુંડમાંથી પેાતાના માટે સુધા લાવવાને, દ્વિજરાજી અર્થાત્ પેાતાની નાકર બનેલી દ્વિજપતિ ( દ્વિજ એટલે બ્રાહ્મણ અને દ્વિજ એટલે દાંત) જાણે મેકલી न होय ! ॥ ११३ ॥ जाने यदास्य सरसी सुधाया, विजृम्भिजिद्दारुणपद्मपत्रा । श्रेणीभवन्तः पुलिनावतंसा, हंसद्विजाः स्युः कथमन्यथास्याम् ॥ ११४॥ यदास्य देवीवदनम् अहमेव जाने वेद्मि । सुधाया अमृतरसस्य सरसी महत्सरोवरमिव । किंभूतम् । विजृम्भि विकसनशील जिह्वा देवीरसना सैवारुणपद्मस्य रक्तकमलस्य पत्र' दल यस्यां सा । एवं चेन्न तर्हि अन्यथा सुधासरसीमन्तरेण अस्यां सरस्यां पुलिनस्य जलोज्झितप्रदेशस्य तटस्येत्यर्थः । 'पुलिन' तज्जलोज्झितम्' इति हैम्याम् । अवतंसाः शेखरीभूतास्तथा श्रेणीभवन्तः पक्तया जायमानाः सन्तस्तिष्ठन्तः हंसद्विजाः सितच्छदविहंगमाः हंसवदुज्ज्वला द्विजा दशनाः कथं केन प्रकारेण स्युर्भवेयुः ॥ શ્લેાકા દેવીનું મુખ, જેમાં વિકસ્વર જીદ્વારૂપી રકતકમલનું પત્ર છે, તેવું મહાન સુધાનું સરોવર જાણે ન હોય ! જો એમ ના હોય તે। સાવરના કાંઠે શ્રેષ્ઠ અને પ ંતિરુપે રહેલા ઉજવલ દંતપંકિતરૂપ હ ંસા કયાંથી હાય ! ॥ ૧૧૪ ૫ वर्धिष्णुदेवीहृदयानुराग-वारांनिधेर्वि द्रुमकन्दलीव । कण्ठत्रिरेखेन मुखे गृहीता, पुपोष भूषां रसना सीया ॥ ११५ ॥ अदसीया अमुष्या इयमदसीया शासनदेवतास बन्धिनी रसना जिह्वा भूषां शोभां

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614