Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

View full book text
Previous | Next

Page 588
________________ मर्ग ८ श्लो० ११५-११७] हीरसौभाग्यम् पुपोष पुष्णाति स्म । शुशुमे इत्यर्थः । उत्प्रेक्ष्यते-कण्ठ एव त्रिरेखः तिम्रो रेखा यत्रेति कम्बुनोपमेयत्वात्कम्बुरेव तेन मुखे स्ववदने गृहीता उपात्ता वर्धिष्णुर्वधनशीलो यो देव्या हृदये मनसि । हृदयं मनो वक्षश्च । अनुरागः स्वप्रियाद्युपरि अत्यन्तानुरक्तता वर्धमानो रागः स एव वारांनिधिः समुद्रः तस्य । तदुत्पन्नस्येत्यर्थः विद्रुमस्य प्रवालस्य कन्दली नवाइकुर इव । 'कन्दली रूपरागेऽपि कलापे च नवारकुरे । मृगजातिप्रभेदे च' इति लिङ्गानुशासनावचूर्णी विद्रुमाणां शङ्खानां च समुद्रे सद्भावात्तग्रहणमुचितमेवेति ॥ इति रसज्ञा ॥ પ્લેકાર્થ દેવીની છવા શોભાને ધારણ કરે છે તે જાણે પિતાના પ્રિયજન પ્રત્યે વધતા અનુરાગરૂપી સમુદ્રમાંથી કંઠફપી શંખવડે મુખમાં પ્રહણ કરાયેલી પરવાળાની કળી ન હોય ? એ ૧૧૫ છે जडीभवन्ती रिपुनिर्जये य-द्वाचा जिता ही विधुरा विपञ्ची । यियासया शैवलिनीशपारे, तुम्बद्वयं किं विभरांबभूव ॥११६।। यद्वाचा देवीसुधारसोद्गारायमान(ण)वाण्या जिताभिभूता अत एव हिया परात्पराभवोद्भूतभूरिलजया विधुरा विह्वला व्याकुला विपञ्ची वीणा । शैवलिनीशस्य सरिभर्तुः समुद्रस्य पारे अपरपावर्तिनि तटे यियासया मन्दाक्षलक्षीकृतत्वेनापरस्य कस्यापि स्वास्य दर्शयितुमशक्नुवन्ती गन्तुमिच्छया। उत्प्रेक्ष्यते-तुम्बद्वयं किम् । अलाबुयुगल. मिव बिभरांबभूव धृतवतीव । यो नद्यादिजलमुत्तितीर्षः स तुम्बकानि धरति इति रीतिः । किं कुर्वती । रिपुनिर्जये प्रतिपन्थिपराभवने प्रतिपक्षस्य प्रतीकारकरणे जडीभवन्ती किंकर्तव्यतायाम् अतः परं मयाथ किं करणीयमिति कायकरणविषये मन्दिमान मूढतां दघाना । स्वशात्रव प्रतिकर्तुमशक्नुवन्तीत्यर्थः । પ્લેકાર્થ દેવીની સુધાસારિણી વાણીવડે પરાભવ પામવાથી લજજાથી વ્યાકુળ બનેલી “વીણા' શત્રુના જ્યમાં કિંકર્તવ્યમૂઢતા અર્થાત જડરૂપતા પામીને સમુદ્રના સામે કાંઠે જવા માટે જ જાણે તેણીએ બે તુંબડાં ધારણ કર્યા ન હોય ! ! ૧૧૬ | श्रवःसुधायै जगतां यदीय-वाचे पिकेन स्पृहयालुनेव । अभ्यस्यते भैक्षभुजा तरुभ्यो-ऽनिश वने पञ्चमगीतिरुच्चैः ॥११७॥ पिकेन कोकिलेन अनिश निरन्तर वने सहकारकानने । प्रायः पिकानां मनो माकदनिकुञ्ज एव रमते नान्यस्मिन् शाखिखण्डे । यतः–'यद्यपि दिशि दिशि तरवः

Loading...

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614