________________
सर्ग ८ श्लो. १००-१०२] हीरसौभाग्यम् भूता पराजिता सती रक्ताङ्कराजी विद्रुममालिका हृदि मनसि विषये हृदये वक्षसि वा कृष्णवल्लीम् । 'कालिवेल' इति लोकप्रसिद्धा । तद्रूपं तामेव वा शल्य शूककण्टकादीनां शलाका हृदये मर्मप्रविष्टशस्त्रं वा । 'शल्य शाशलाकयोः' इत्यनेकार्थः । तथा 'शल्यं शरीरान्तर्गत शस्त्रादिसीमाच्छिद्र वंशादोनां शलाकाविशेषश्च' इति लिस्मानुशासने । अद्यापि अद्यतन दिन यावन्न पर्यहार्षीत् न परिहरति स्म हदये पवावतिष्ठमानमास्ते किम् । नंष्ट्वा यदधरोदुरविरोधिविरुद्धविधानातिसाध्वसात्प्रणश्य पयोधिः समुद्रस्तस्य मध्ये अत्यगाधजलान्तः प्रविष्टा प्रविश्य स्थितापि ॥ इत्यधरः ॥
બ્લેકાર્થ દેવીના અધર સાથેના સંગ્રામમાં પરાભવ પામેલી પરવાલાની પંક્તિ નાશીને સમુદ્રના અગાધ જલમાં પ્રવેશી હોવા છતાં પણ હજુ સુધી કાલીવેલરૂપ પરાજ્યના શલ્યને છોડતી નથી. ૧૦
बन्धूकबन्धूभवदेतदीय-दन्तच्छदे दन्तरुचिश्वकासे ।
निपेतुषी कोकनदच्छदाङ्के, शरत्सुधादीधितिकौमुदीव ॥१०१।। बन्धूको बन्धुजीवः । 'विपोहरिया' इति लोकप्रसिद्धिः । स रक्तकुसुमः स्यात् । तथा 'बन्धुजीवविघात ग्रीष्मदिवसावसानजनाः' इति चम्पूकथायाम् । ग्रीष्मे हि बन्धूकानि शुष्यन्ति । तथा 'बन्धूकप्रसवारुणाम्बरधराम्' इति लघुस्तवेऽपि । तस्य बन्धूककुसुमस्य बन्धूभवन् सहोदरो मित्र वा जायमानो य एतदीयो देवतासंबन्धी दन्तच्छदोऽधरस्तत्र निपेतुषी पतनशीला पतिता वा दन्तानामर्थाद्देवीदशनानां रुचिः कान्तिश्चकासे दीप्यते स्म । उत्प्रेक्ष्यते-कोकनदस्य विकसितरकोत्पलस्य यच्छद पत्र तस्याश्के उत्सङ्गे निपेतुषी समीयुषी प्राप्ता शरदो घनात्ययस्य सुधादीधितिरमृतवत् शरत्कालेन जलधररोधोपरोधावधीरणेन निर्मलीकृतत्वादुज्ज्वला अतिविशदीभूता दीधितयः कान्तयो यस्येत्यन्वर्थनामा चन्द्रस्तस्य कौमुदी चन्द्रिकेव । अथवोपमा । यथा रक्तकमलपलाशे शारदीननिशानायककौमुदी शोभते ॥
શ્લોકાર્ય લાલ પુષ્પના સદર (બંધુ)રૂપ દેવીના અધર ઉપર રહેલી દાંતની પંક્તિ શોભે છે. તે જાણે રક્તમલનાં પાત્રોની મધ્યમાં પડેલી શરદઋતુના ચંદ્રની ચંદ્રિકા ન હોય ! ૧૦
पीयूषपूर्णस्मरकेलिशोण-मणीनिबद्धाधरदीर्घिकायाम् ।
यस्या विनिद्रद्विजचन्द्रिकाभि-राश्रीयते कैरविणीवनश्रीः ॥१०२॥ यस्याः शासनसुर्याः विनिद्वन्तीभिर्विजम्भमाणाभिद्विजानां दन्तानां चन्द्रिकाभियों स्नाभिः । कान्तिभिरित्यर्थः । 'दशनचन्द्रिकया व्यवभासितम्' इति रघौ । कैरविणीनां