Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah
View full book text
________________
सर्ग ८ श्लो० ९५ - ९७]
डीरसौभाग्यम्
શ્લાકાર્થ
દેવીના મુખરૂપી કુંડમાંથી અનુપમ લાવણ્યરૂપી જલ, પ્રસરતા સ્કુરાયમાન તરંગાવડે બહાર ન નીકળી જાઓ! તેથી જ જાણે બ્રહ્માએ નીચા ભાગવાળા ચિક્ષુક (હડપચી) બનાવ્યા ન હાય ! ।। ૫ ।
यदाननाम्भोरुहवाससौधे, सात वसन्त्या जलराशिपुत्र्याः ।
विलासवापीव पयोविहार, स्वैरं विधातु चिबुकस्त्रिदश्याः ॥ ९६ ॥
५५३
त्रिदश्याः शासन देव्याश्चिबुकः । उत्प्रेक्ष्यते - जलराशिपुत्र्या लक्ष्म्या विलासवापीव क्रीडादीर्घिकेव । किं कर्तुम् । स्वैर स्वेच्छया पयसि वारिणि विहार जलकेलिम् । 'यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले' इति रघुवंशे । विधातु कर्तुम् । किं कुर्वत्या जलराशिपुत्र्याः । यदाननाम्भोरुहवाससौधे यस्या देव्या आनन वदनमेवास्भो रु कम तदेव वाससौध वसनसदनं तत्र सातं सुखं यथा स्यात्तथा वसन्त्याः स्थितिं कुर्वत्याः ॥ इति देवीचिबुकाः ॥
શ્લાકાર્થ
દેવીના ચિક્ષુક (હડપચી) તે જાણે દેવીના મુખકમલરૂપી આવાસમાં સુખપૂર્વક વાસ કરતી સમુદ્રપુત્રી લક્ષ્મીદેવીની સ્વૈચ્છિક જલક્રીડા કરવાની ક્રીડા-વાવડી ન હેાય ! ૫૯૬૫
रेजेऽधरोऽस्या हरिमन्थकालात्, प्रवासिनं यन्मुखचन्द्रपुत्रम् ।
इल्लेख भाजा मिलितु प्रवाल:, पयोधिनाहातुमिष प्रयुक्तः ॥ ९७ ॥
अस्या देव्या अधरः ओष्ठो रेजे राजते स्म । उत्प्रेक्ष्यते-पयोधिना समुद्रेण यस्या मुखमेव चन्द्र ं स्वपुत्रमाहातुमाकारयितुमिव प्रवालः समुद्रोत्पन्नत्वाद्विद्रुमः । अथ वा प्रकृष्ट उक्तसंदेशवाक्यकथको बालकः प्रयुक्तः प्रेषितः । किंलक्षणेन समुद्रेण । हृल्लेखमुकण्ठामौत्सुक्यं भजतीति तादृशेन । किं कर्तुम् । मिलितु पुत्रप्रेम्णा सगं कर्तुम् । चन्द्रस्य समुद्रोत्पन्नत्वेन नन्दनत्वम् । किंभूत चन्द्रम् । हरिणा विष्णुना मन्दराद्रिणा यो मन्थो मन्थन तस्य कालः समयः तस्मादारभ्य प्रवासिनं परदेशे गतं पुनरागतम् अत पत्र मिलनोत्कण्ठा ॥
ક્લાકા
દેવીના અધર ( એષ્ઠ) શાભે છે, તે જાણે વિષ્ણુએ સમુદ્રનું મંથન કર્યું ત્યારથી આરભીને પરદેશ ગયેલા પેાતાના પુત્રને દેવીના મુખરૂપી ચંદ્રને મળવાની ઉત્કંઠાથી સમુદ્રે ખેાલાવવા માટે મેકલેલા સ ંદેશવાહક પરવાળા ન હોય ! ॥ ૯૭ ll

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614