Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah
View full book text
________________
सर्ग ७ श्लो० ५७-५९] हीरसौभाग्यम्
४८७ यतो हैम्यामपि सर्वेषां नामानि सामान्येनैवोक्तानि न विशेषात् , यथा-'नक्षत्र तारका ताराज्योतिषी भमुडुग्रहाः । धिष्णयमृक्षम्' इति, तथापि उपलक्षणाद्ग्रहनक्षत्रतारकाणां लक्षात्कपटात् श्रमाम्बुभिः बहुविनोदविधानोद्भूतप्रस्वेदसलिलैबिन्दवः संजाता अस्मिन्निति । स्वार्थ कः। बिन्दुकित जलकणकलित जातम् । 'स्वेदबिन्दुकितनासिकाशिख तन्मुख सुखयति स्म नैषधम् इति नैषधे । किं बभूव संजातमिव ॥
લેકાર્થ સંપૂર્ણ દિવસ પોતાના કામુક પતિ સૂર્યની સાથે હાસ્ય-વિનોદ આદિ કામક્રીડાઓ કરવાથી, ગગનલક્ષ્મીના વક્ષસ્થલમાં રહેલા ગ્રહ, નક્ષત્ર અને તારાઓ તે જાણે શ્રમજલનાં (દજલન) લાખ બિંદુઓ ન હોય ! પછા
आगन्तुकस्योदयशृङ्गिशङ्गा-स्थानीं तमोद्विड्दमनस्य राज्ञः । नभोवितान किमकारि तारा-मुक्ताङ्कित सृष्टिकृतोपरिष्टात् ॥ ५८ ॥
सृष्टिकृता जगतत्सर्गविधायकेन विधात्रा राक्षश्चन्द्रस्य पृथिवीपुरंदरस्य उपरिष्टात् मस्तकोपरितनभागे । उत्प्रेक्ष्यते-तारास्तारका उपलक्षणान्नक्षत्रताराग्रहा एव मुक्ता. फलानि तरङ्किन विचित्ररचनाचारिमाञ्चित नभो गगनतलमेव वितान चन्द्रोदयः किमकारि निर्मितम् । रचितमिव । राज्ञः किंभूतस्य । शृङ्गिणः पर्वतस्य । पूर्वपर्वतस्येत्यर्थः । शृङ्ग शिखर तदेवास्थानीमुपवेशनसभामागन्तुकस्य आगमनशीलस्य । पुनः किंभूतस्य । तमांस्येव द्विषन्तः शत्रवस्तेषां दमनस्यान्तकारकस्य । 'अप्यन्तकारिदम. नदर्पच्छिन्मथनादयः' इति हैम्याम् ॥
લોર્થ ઉદયાચલ પર્વતના શિખરરૂપ સભામંડપમાં નિરંતર આવનાર (સભ્ય) તેમજ અંધકારરૂપ શત્રનું દમન કરનાર એવા ચન્દ્રરાજાના મસ્તક ઉપર બ્રહ્માએ ગ્રહ-નક્ષત્ર-તારાઓ રૂપ મુક્તાફલેથી ચિત્ર વિચિત્ર એવો આકાશતલરૂ૫ ચંદર જાણે બનાવ્યો ન હોય ! પાપા
नभोगसारङ्गदृशां रतीश-राभस्यवश्यप्रियखेलिनीनाम् ।
वक्षःस्थहारच्युतमुक्तिकाभि--नभःस्थली तारकिता किमासीत् ॥ ५९॥ रतीशराभस्येन तारुण्यवयस्त्वेन यन्मदनौत्सुक्य यौवनोन्मादेन मदनात्युत्कण्ठाभाक्त्वेन वश्या म्वायत्तीभूता ये प्रिया वल्लभास्तैः सम स्म रमन्ते वात्स्यायनोक्तविविधविनोदैः खेलन्ति क्रीडन्तीत्येवंशीलास्तादृशीनाम् । 'भीम कृत्वाङ्कखेलनम्' इति पा. ण्डवचरित्रे । नभसि आकाशे गच्छन्तीति नभोगा देवास्तेषां सारङ्गदृशो मृगलोचनाः स्त्रियो देव्यस्तासां वक्षःसु हृदयस्थलेषु तिष्ठन्तीति वक्षस्थास्तादृशा हारा मुक्ताकलापा

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614