Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

View full book text
Previous | Next

Page 559
________________ ५३४ हीरसौभाग्यम् [सर्गः ८ श्लो० ५६-५८ भविष्णुनीरन्ध्रभवनशीलः तथा रोचिष्णुः शोभनशीलो यो रोचिश्चयः कान्तिनिकरः स पच निर्झरिणी नदी सस्यां प्रादुर्भवन्ती प्रकटीसजायमाना विलसति परस्परमाग्लिष्यतीत्येवंशीला कल्लोलमाला तरङ्गमण्डलीव । अथवा प्रकटीभवन्ती लोचनगोचरत्वमागच्छन्ती तिस्रश्च ता वल्यश्च त्रिवल्यस्त्रिवल्य एव विलसनशीला विराजमानस्वभावा लहरी राजीव ॥ લેકાર્થ શાસનદેવીના ઉદર ઉપર ત્રિવલી શબે છે, અત્યંત નીરંદ્ર અને દેદીપ્યમાન દેવીના શરીરની કાન્તિના સમૂહરૂપ નદીની ત્રિવલીના વિલાસરૂપે પ્રગટ થતી જાણે પરસ્પર તરંગની લહરી ન હોય ! છે ૫૬ છે चण्डी सपत्नी प्रबला ममास्ते, ज्यायानजो वेदजडः पतिर्मे । भ; वियोगो हरिणा ममापि, दुःखं जहीद तिमृणामपीति ॥५७ ॥ वक्तुं जगत्कल्पितकल्पवल्लि, जबोर्विधेश्चांशुमतः मुताभिः । मध्ये समेत्य त्रिवलीच्छलेन, प्रसादपात्रीक्रियते किमेषा ।। ५८ ॥ सुताशब्दः त्रिषु स्थानेषु प्रत्येक योजनीयः । जह्वोर्नारायणस्य सुता गङ्गा । 'तीर्थ तोयव्यतिकरभवे जहुकन्यासरय्वोः' इति रघौ । पुनर्विधेब्रह्मणः सुता सरस्वती। . 'ब्रह्मपुत्री सरस्वती' इति हैम्याम् । तथा 'दशमनामब्रह्मणः सुता' इति भारतीस्तोत्रे । च पुनरंशुमतः सूर्यस्य । स्यत्वेंशुपनिरंशुमान्' इति हैम्याम् । सुता पुत्री यमुना । 'कृतान्तजनकः प्रद्योतनस्तापनः, इति हेमचन्द्रोक्तिः। तथा 'अलभत शमनस्वसुः शिशुत्व दिवसकराङ्कतले चला लुठन्ती' इति नैषधे । एतावता गङ्गासरस्वतीयमुनानामनदीभिः मध्ये उदरे तिसृणां वलीनां त्वक्संकोचलक्षणानां छलेन कपटेन समेत्य देवीपार्श्व आगत्य । उत्प्रेक्ष्यते इति वक्तुं कथयितुम् । किम् । एषा देवीप्रसत्तेः प्रसादस्य पात्र स्थान क्रियते । याचना सफला तु प्रसादपात्रीकृतादेव प्रभोः स्यादतो देवी प्रसा. द्यत इत्यर्थः । इति किम् । मम गङ्गायाः प्रबला सिंहयानत्वेन बलवती चण्डी अत्यन्त. कोपना पार्वती सपत्नी वर्तते । द्वयोरपीश्वरपत्नीत्वेन सापत्न्यम् । तथा मम सरस्वत्याः पतिण्यानतिवृद्धः, तथाजः पशुब्रह्मा, तथा वेदजडोऽशान । 'स्थविरशतानन्दपितामहौ कस्तथा परमेष्टाजोऽष्टश्रवणः स्वयंभूः' इति हैम्याम् । किमपि न वेत्ति वैदिकः । यतः 'न बेदतां वेदजडः सवत्साम्' इति नैषधे सरस्वत्या ब्राह्मणस्त्रीत्वम् । तथा एकादश नाम ब्रह्माणी । इति हेतोर्मम पतिर्भास्ते । तथा भर्ना प्रियेण हरिणा कृष्णेन सार्ध मम यमुनाया वियोगो विरहः । 'अम्मन्तरेण विहडइ उत्तममहिलाण जे किय पिम्मम् । कालिन्दा कन्हविरहे अजवि काल जल वहइ ॥ इति वृत्तरत्नाकरवृत्तिबोधकवचनात् । विद्यते इदमेतत्पूर्वोक्कलक्षणम् । तिसृणामप्यस्माकमुषितानां

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614