Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

View full book text
Previous | Next

Page 572
________________ ५४७ मर्ग ८ श्लो० ८३-८५ ] हीरसौभाग्यम् न्तरीपे अन्तर्ज ले तटे यस्याम् । पुनः किंभूता । दृशावेव भृङ्गो षट्चरणौ यत्र तादृश मुख वदनमेवारविन्द कमल यस्याम् । उत्प्रेक्ष्यते-जम्बूनदीव ॥ इति भुजा ॥ કલોકાર્થ શાસનદેવી જંબૂદીપની જેમ શોભે છે. જેમાં સુવર્ણ સમાન કાતિના સમૂહરૂપ જલે છે, જેના બે કાડે બાહુલતારૂપી મૃણાલ ( કમલની નાલ ) ઉન્નત થઈ છે, ઉન્નત સ્તનયુગલરૂપ અંતઠપ છે. તેમજ જેમાં નેત્રોરૂપી ભ્રમરે છે, તેવા પ્રકારની દેવી, જંબૂનદીની જેમ શેબે છે. ૧૮મા भुजान्तरानुत्तरराजधान्या, अभ्यर्णभूमौ रतिजानिभर्तुः । किमु स्फुरच्चन्दनचारिमश्री-क्रीडाद्रिकूटौ लसतस्तदंसौ ॥ ८४ ॥ तस्या देव्या अंस स्कन्धौ लसतः शोभां लभेते । उत्प्रेक्ष्यते-रतिरेव जाया यस्य स रतिजानिः कंदर्पदेवः स एव भर्ता त्रिभुवन बिभर्तीति सुरासुरोरगनराणां तदाशाव. शंवदीभूतत्वेन । अथ वा हास्यविविधविनोदविलाससंयोगभोगादिभिर्जगज्जनान्विति पुष्णातीति । 'दुभृञ् धारणपोषणयोः अयं धातुः । ततः... .... स्वामी श्रीनन्दनरा. जाधिराजस्तस्य स्फुरन्ती परमोत्कर्षमुद्वहन्ती चन्दनस्य मलयद्रुमद्रवस्य गोशीर्षशाखिनो वा पत्रवल्लीविचित्ररचनाविलेपनादेः सुरभिपर्णश्रेणिपरिमलादेर्वा चन्दनतरौ पुष्पफलानामसंभवः । यदुक्तम्-'यद्यपि चन्दनविटपी विधिना फलपुष्पवर्जितो विहितः । निजवपुषैव परेषां तथापि संतापमपनयति ॥' इति वचनात्पत्राणां संभवो दृश्यते । तथा चम्पूकथायाम्-'नागरुचिताश्चन्दनपत्रभङ्गा भवद्वैरिवधूवदनेवनेव' । 'किंलक्षणेनागरुणा काकतुण्डेन चिता व्याप्ता सहिताश्चन्दनद्रवस्य पत्रवल्लयो भान्ति । तथा नागानां भुजगमानां रुचिता ईप्सिता चन्दनद्रमाणां पत्राणां पर्णानां भक्ष्गाः शकलानि भान्ति' इति चम्पूटिप्पणकम् । चारिमायाः सुगन्धिनाया श्रीः शोभा ययोः तादृशौ क्रीडाद्रेः केलिशैलस्य कूटौ शिखरे इव कूटे इव । कुत्र । भुजान्तरं देवीहृदयं तदेवानुत्तरा न विद्यते वैशिप्येण लक्ष्म्या वा उत्तरः अग्रेतनवी पदार्थो यस्याः सा साधारणा राजधानी स्मरराजनिवसनस्थाननगर तस्या अभ्यर्णभूमौ समीपप्रदेशे । राजधान्याः संनिधौ क्रीडावननदीवापीपर्वतादयो भवन्ति । तत्र प्रियासखा नृपादयः स्वैर क्रीडन्तीति रीतिः ॥ પ્લેકાર્થ શાસનદેવીના બે કો લે છે. દેવીની ભુજાની વચ્ચે રહેલી કામદેવરાજાની અનુપમ રાજધાનીની પાસે પ્રગટ થતી ચંદનની સુવાસવાળા કીડાપર્વતનાં જાણે બે શિખર ન હોય ! ૮૪ स्वःसुभ्रवः प्रेक्ष्य पयोधरौ स्व-संस्पर्धिनौ तुङ्गिमविभ्रमेण । जयाय तयुद्धविधित्सयेव, कुम्भौ समेतौ स्फुरतस्तदंसौ ॥ ८५ ।।

Loading...

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614