Book Title: Heersaubhagya Mahakavyam Part 01
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

View full book text
Previous | Next

Page 573
________________ ५४८ हीरसौभाग्यम् [सर्ग ८ श्लो० ८५-८७ __ स्वःसुभ्रवः सुराङ्गनायास्तस्याः अंसौ स्कन्धौ स्फुरतः । उत्प्रेक्ष्यते-जयाय प्रतिपक्षपराभवकृते स्वयं तद्युद्धविधित्सया ताभ्यां स्तनाभ्यां साधं युद्धस्य संग्रामस्य विधित्सया चिकीर्षया विधातुमिच्छया समेतावागतौ कुम्भौ कलशाविव । किं कृत्वा । तुङ्गिम्न उच्चताया विभ्रमेण लक्ष्म्या कृत्वा स्वाभ्यां घटात्मभ्यां सार्ध स्पर्धेते इत्ये. वंशीलौ । स्वःसुभ्रवः पयोधरौ कुचौ प्रेक्ष्य दृग्गोचरीकृत्य ॥ इति स्कन्धौ ॥ પ્લેકાર્થ દેવીના ફરાયમાન છે તે જાણે ઉન્નતિની શોભાથી પિતાની સાથે સ્પર્ધા કરતા દેવીનું સ્તનયુગલ જોઈને, તેને પરાભવ કરવા માટે, યુદ્ધ કરવાની ઈચ્છાથી આવેલા બે કલશ ન હોય ! ૮૫ अस्याः सदृक्षां श्रियमाश्रयन्ती, नास्ति त्रिलोक्यामपि कापि कान्ता । इतीव रेखात्रितयं ततान, तत्कण्ठपीठे सरसीजजन्मा ॥ ८६ ॥ सरसीजात्कमलाजन्म उत्पत्तिर्यस्य स सरसीजजन्मा विधाता तस्या देव्याः कण्ठपीठे गलकन्दले । उत्प्रेक्ष्यते-इतीव हेतो रेखानां त्रितयं त्रिक ततान विस्तारयामास । चकारेत्यर्थः । इति किम् । यदस्याः शासनत्रिदश्याः सदृक्षां साधारणीम् । तुल्यामित्यर्थः । श्रियं शरीरसौन्दर्य लक्ष्मीमाश्रयन्ती भजन्ती कापि शाताज्ञाता काचन कान्ता सुलोचना त्रिलोक्यां स्वर्गबलिगृहभहीवलयत्रयेऽपि नाकिनागनागराझानासु नास्त्येवेति जगत्त्रयेऽपि न विद्यते ॥ શ્લોકાર્ધ બ્રહ્માએ દેવીના ગળે ત્રણે રેખા કરી. શા માટે ! “આ શાસનદેવી જેવી સૌથંલી ત્રણે જગતની કોઈપણ સ્ત્રી પાસે નથી, આવું સૂચન કરવા માટે જાણે ત્રણ રેખા દોરી ન હેય૮કા कण्ठश्रिया स्वःकुरविन्ददत्या, निर्जीयमानैनिखिलैत्रिरेखैः । रथाङ्गपाणिं प्रति पाञ्चजन्यः, पूत्कर्तुकामैः प्रहितः किमेकः ॥ ८७॥ निखिलैखिरेखैः समस्तैः शङ्खैः पूत्कर्तुकामः राव कर्तुमिच्छद्भिः सद्भिः अर्थात्सर्वैः संभूय रथाङ्ग वैरिवारिभिरप्रतिहत चक्र पाणौ हस्ते यस्य स रथाङ्गपाणिविष्णुस्त . प्रति एकः पाञ्चजन्यनामा शखः । उत्प्रेक्ष्यते-किं प्रहितः प्रेषित इव । किं क्रियमाणैः निखिलत्रिरेखनिर्जीयमानः पराभवनपदवीं नीयमानः हठात्प्राप्यमानैः । कया। स्वाकुरविन्ददत्या स्वर्गस्य कुरविन्दाः पद्मरागमणयः । 'स्वे हि दर्शयति कः परेणथानय॑दन्तकरविन्दमालिके' इति नैषधे । तद्वदन्ता दशना यस्याः सा । कया कृत्वा । कण्ठश्रिया निजगललक्ष्म्या साधनभूतया ॥

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614