________________
५४८
हीरसौभाग्यम् [सर्ग ८ श्लो० ८५-८७ __ स्वःसुभ्रवः सुराङ्गनायास्तस्याः अंसौ स्कन्धौ स्फुरतः । उत्प्रेक्ष्यते-जयाय प्रतिपक्षपराभवकृते स्वयं तद्युद्धविधित्सया ताभ्यां स्तनाभ्यां साधं युद्धस्य संग्रामस्य विधित्सया चिकीर्षया विधातुमिच्छया समेतावागतौ कुम्भौ कलशाविव । किं कृत्वा । तुङ्गिम्न उच्चताया विभ्रमेण लक्ष्म्या कृत्वा स्वाभ्यां घटात्मभ्यां सार्ध स्पर्धेते इत्ये. वंशीलौ । स्वःसुभ्रवः पयोधरौ कुचौ प्रेक्ष्य दृग्गोचरीकृत्य ॥ इति स्कन्धौ ॥
પ્લેકાર્થ દેવીના ફરાયમાન છે તે જાણે ઉન્નતિની શોભાથી પિતાની સાથે સ્પર્ધા કરતા દેવીનું સ્તનયુગલ જોઈને, તેને પરાભવ કરવા માટે, યુદ્ધ કરવાની ઈચ્છાથી આવેલા બે કલશ ન હોય ! ૮૫
अस्याः सदृक्षां श्रियमाश्रयन्ती, नास्ति त्रिलोक्यामपि कापि कान्ता । इतीव रेखात्रितयं ततान, तत्कण्ठपीठे सरसीजजन्मा ॥ ८६ ॥
सरसीजात्कमलाजन्म उत्पत्तिर्यस्य स सरसीजजन्मा विधाता तस्या देव्याः कण्ठपीठे गलकन्दले । उत्प्रेक्ष्यते-इतीव हेतो रेखानां त्रितयं त्रिक ततान विस्तारयामास । चकारेत्यर्थः । इति किम् । यदस्याः शासनत्रिदश्याः सदृक्षां साधारणीम् । तुल्यामित्यर्थः । श्रियं शरीरसौन्दर्य लक्ष्मीमाश्रयन्ती भजन्ती कापि शाताज्ञाता काचन कान्ता सुलोचना त्रिलोक्यां स्वर्गबलिगृहभहीवलयत्रयेऽपि नाकिनागनागराझानासु नास्त्येवेति जगत्त्रयेऽपि न विद्यते ॥
શ્લોકાર્ધ બ્રહ્માએ દેવીના ગળે ત્રણે રેખા કરી. શા માટે ! “આ શાસનદેવી જેવી સૌથંલી ત્રણે જગતની કોઈપણ સ્ત્રી પાસે નથી, આવું સૂચન કરવા માટે જાણે ત્રણ રેખા દોરી ન હેય૮કા
कण्ठश्रिया स्वःकुरविन्ददत्या, निर्जीयमानैनिखिलैत्रिरेखैः ।
रथाङ्गपाणिं प्रति पाञ्चजन्यः, पूत्कर्तुकामैः प्रहितः किमेकः ॥ ८७॥ निखिलैखिरेखैः समस्तैः शङ्खैः पूत्कर्तुकामः राव कर्तुमिच्छद्भिः सद्भिः अर्थात्सर्वैः संभूय रथाङ्ग वैरिवारिभिरप्रतिहत चक्र पाणौ हस्ते यस्य स रथाङ्गपाणिविष्णुस्त . प्रति एकः पाञ्चजन्यनामा शखः । उत्प्रेक्ष्यते-किं प्रहितः प्रेषित इव । किं क्रियमाणैः निखिलत्रिरेखनिर्जीयमानः पराभवनपदवीं नीयमानः हठात्प्राप्यमानैः । कया। स्वाकुरविन्ददत्या स्वर्गस्य कुरविन्दाः पद्मरागमणयः । 'स्वे हि दर्शयति कः परेणथानय॑दन्तकरविन्दमालिके' इति नैषधे । तद्वदन्ता दशना यस्याः सा । कया कृत्वा । कण्ठश्रिया निजगललक्ष्म्या साधनभूतया ॥