________________
५४७
मर्ग ८ श्लो० ८३-८५ ] हीरसौभाग्यम् न्तरीपे अन्तर्ज ले तटे यस्याम् । पुनः किंभूता । दृशावेव भृङ्गो षट्चरणौ यत्र तादृश मुख वदनमेवारविन्द कमल यस्याम् । उत्प्रेक्ष्यते-जम्बूनदीव ॥ इति भुजा ॥
કલોકાર્થ
શાસનદેવી જંબૂદીપની જેમ શોભે છે. જેમાં સુવર્ણ સમાન કાતિના સમૂહરૂપ જલે છે, જેના બે કાડે બાહુલતારૂપી મૃણાલ ( કમલની નાલ ) ઉન્નત થઈ છે, ઉન્નત સ્તનયુગલરૂપ અંતઠપ છે. તેમજ જેમાં નેત્રોરૂપી ભ્રમરે છે, તેવા પ્રકારની દેવી, જંબૂનદીની જેમ શેબે છે. ૧૮મા
भुजान्तरानुत्तरराजधान्या, अभ्यर्णभूमौ रतिजानिभर्तुः ।
किमु स्फुरच्चन्दनचारिमश्री-क्रीडाद्रिकूटौ लसतस्तदंसौ ॥ ८४ ॥ तस्या देव्या अंस स्कन्धौ लसतः शोभां लभेते । उत्प्रेक्ष्यते-रतिरेव जाया यस्य स रतिजानिः कंदर्पदेवः स एव भर्ता त्रिभुवन बिभर्तीति सुरासुरोरगनराणां तदाशाव. शंवदीभूतत्वेन । अथ वा हास्यविविधविनोदविलाससंयोगभोगादिभिर्जगज्जनान्विति पुष्णातीति । 'दुभृञ् धारणपोषणयोः अयं धातुः । ततः... .... स्वामी श्रीनन्दनरा. जाधिराजस्तस्य स्फुरन्ती परमोत्कर्षमुद्वहन्ती चन्दनस्य मलयद्रुमद्रवस्य गोशीर्षशाखिनो वा पत्रवल्लीविचित्ररचनाविलेपनादेः सुरभिपर्णश्रेणिपरिमलादेर्वा चन्दनतरौ पुष्पफलानामसंभवः । यदुक्तम्-'यद्यपि चन्दनविटपी विधिना फलपुष्पवर्जितो विहितः । निजवपुषैव परेषां तथापि संतापमपनयति ॥' इति वचनात्पत्राणां संभवो दृश्यते । तथा चम्पूकथायाम्-'नागरुचिताश्चन्दनपत्रभङ्गा भवद्वैरिवधूवदनेवनेव' । 'किंलक्षणेनागरुणा काकतुण्डेन चिता व्याप्ता सहिताश्चन्दनद्रवस्य पत्रवल्लयो भान्ति । तथा नागानां भुजगमानां रुचिता ईप्सिता चन्दनद्रमाणां पत्राणां पर्णानां भक्ष्गाः शकलानि भान्ति' इति चम्पूटिप्पणकम् । चारिमायाः सुगन्धिनाया श्रीः शोभा ययोः तादृशौ क्रीडाद्रेः केलिशैलस्य कूटौ शिखरे इव कूटे इव । कुत्र । भुजान्तरं देवीहृदयं तदेवानुत्तरा न विद्यते वैशिप्येण लक्ष्म्या वा उत्तरः अग्रेतनवी पदार्थो यस्याः सा साधारणा राजधानी स्मरराजनिवसनस्थाननगर तस्या अभ्यर्णभूमौ समीपप्रदेशे । राजधान्याः संनिधौ क्रीडावननदीवापीपर्वतादयो भवन्ति । तत्र प्रियासखा नृपादयः स्वैर क्रीडन्तीति रीतिः ॥
પ્લેકાર્થ
શાસનદેવીના બે કો લે છે. દેવીની ભુજાની વચ્ચે રહેલી કામદેવરાજાની અનુપમ રાજધાનીની પાસે પ્રગટ થતી ચંદનની સુવાસવાળા કીડાપર્વતનાં જાણે બે શિખર ન હોય ! ૮૪
स्वःसुभ्रवः प्रेक्ष्य पयोधरौ स्व-संस्पर्धिनौ तुङ्गिमविभ्रमेण । जयाय तयुद्धविधित्सयेव, कुम्भौ समेतौ स्फुरतस्तदंसौ ॥ ८५ ।।