________________
हीरसौभाग्यम् [सर्गः ८ श्लो० ८१-८३
બ્લેકર્થ શોભાયુક્ત હાથવાળી શાસનદેવીની બહુલતા શોભે છે, તે જાણે ચિરકાલીન જલસહવાસને ત્યાગ કરીને મૃણાલી ( કમલની નાળ) પિતાના પુત્ર કમલની સાથે આવીને, દેવીની બાહુલતાને બહાને, ચાતુર્યશિરોમણી એવી શાસનદેવીને આશ્રય કરીને રહી ન હોય ! Hi૮૧
बभौ भुजाभ्यां मखभुङ्मृगाक्षी, दग्धायुधस्येव कृते स्मरस्य ।
रसालवल्लीमयकार्मुकाभ्या-मभ्यर्थनादात्मभुवा कृताभ्याम् ॥ ८२ ॥ मख यज्ञ भुनक्तीति मखभुक् देवः । 'स्वाहास्वधाक्रतुसुधाभुज आदितेयाः' इति हैम्याम् । 'मखांशभाजां प्रथमो निगद्यसे' इति रघौ । 'मुख मखास्वादविदाम्' इति नैषधे । तस्य मृगाक्षी हरिणेक्षणा प्रिया शासनदेवी भुजाभ्यां कृत्वा बभौ भाति स्म । उत्प्रेक्ष्यते-दग्धानि ज्वलितानि आयुधानि समग्रशस्त्राणि यस्य तादृशस्य स्मरस्य कामस्य कृतेऽर्थमभ्यर्थनादर्थान्मदनातिथिविहितबहुयाचनात आत्मभुवा विधात्रा कृताभ्यां निर्मिताभ्यां रसालवल्लीमयाभ्यामिक्षुलतारूपाभ्यां कार्मुकाभ्यां कोदण्डाभ्यामिव । 'पपाः पशराः शरासनमपि ज्याशन्यमिश्लोलता जेतव्य जनतां त्रयं प्रतिदिन जेताप्यनगः किल' इति चम्पूकथायाम् । तथा 'इक्षुः स्याद्रसालोऽसिपत्रकः' इति हैम्याम् । तथा 'रसाल इक्षौ चूते च' इत्यनेकार्थः । अथ वा रसालवल्लीमयाभ्यामाम्रलताप्रधानाभ्यां चापाभ्यामिव ॥
શ્લોકાથ શાસનદેવીની બાહુલતા શોભે છે, જેનાં સર્વ શસ્ત્રો ભસ્મીભૂત થઈ ગયાં છે તેવા કામદેવ માટે અત્યંત પ્રાર્થના કરવાથી બ્રહ્માએ ઈશ્નની લારૂપ બે ધનુષ્યો બનાવ્યાં ન હોય ! ! ૮૨ |
समुच्चरच्चन्द्ररुचीचयाम्भाः, पार्श्व द्वयोद्भुतभुजा मृणाली ।
जम्बूनदीवोच्चकुचान्तरीपा, या भाति दृग्भृङ्गमुखारविन्दा ॥ ८३ ॥ या शासनसुरी जम्बूनदीव भाति । किंभूता। समुच्चरन्तीनां प्रादुर्भवन्तीनां चन्द्रसा. न्द्राणां सुवर्णसदृशीनां हेमरूपाणां वा रुचीनां कान्तीनाम् । 'वरुणगृहिणीमाशामासाद. यन्तममु रुची निचयसि चयांशांशभ्रंशक्रमेण निर शुकम्' इति नैषधे । चयः समूहः स एवाम्भो नीर' यस्यां वपुषः काञ्चनवर्णत्वात्तद्रुच्योऽपि तादृग्वर्णाः स्युः । पुनः किंभूता । पार्श्वद्वयमुभयतटयुगल समीपद्वन्द्व वा । 'कक्षाधःप्रदेशद्वितयं पाव मन्तिके। कक्षाधोऽवयवे वक्त्रोपायपशु समूहयोः॥' इत्यनेकार्थः। तत्रोद्भूतौ उद्गतौ भुजारूपौ बाहु. मूयों मृणाल्यौ कमलनाले यस्याम् । 'शुङ्गोऽथलिञ्जभुजशाटसटाः सपाटः' इति लिङ्गानुशासने । भुजः । भुजाशब्दः पुंस्त्रीलिङ्गयोः । पुनः किंभूता । उच्चावुनती कुचावेवा.